न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 114, कुल 608 में से
संदर्भ में पढ़ें८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां
प्रकाशः ।
रत्नकोषकृतस्तु, रसविशेषवृत्तिरेव दुग्धत्वादिजातिः । द्रव्यवृत्तित्वेऽपि तद्व्यञ्जकस्य रसस्या-
वश्यकत्वात् । द्रव्यत्वादिसामानधिकरण्यबुद्धिश्च परम्परासम्बन्धात् । तथाच दुग्धारम्भका एवा-
वयवाः पाकजरसविशेषशालिनो दध्यारम्भका इति न विरोध इत्याहुः ॥
प्रकाशिका
शस्यापि कद(चिन्महापटध्वंसद्वारा खण्डपटजनकत्या द्रव्यपदोपादानेऽपि व्यभिचारतादवस्थ्यात्
यत्त मङ्गलस्य विघ्नध्वंसद्वारा समाप्तिजनकत्वं समाप्तिश्च चरमसमुदायिरूपा एवं च मङ्गलजन्या-
यां द्रव्यसमाप्तौ व्यभिचारो विघ्नध्वंसस्य तज्जनकत्वादिति व्यपदमिति तत्तच्छम् । विघ्नध्वंस-
स्य मङ्गलजन्यत्वेऽपि समाप्तिजनकतायां संसर्गाभावत्वस्यैव प्रयोजकत्वात् । अन्यथा कदाचिद्वि-
ध्वंस्य द्रव्यरूपत्वेन द्रव्यपदे दत्तेऽपि व्यभिचारतादवस्थ्यात् । यत्तु प्रलयजनकादृष्टध्वंसस्य सर्ग-
जनकत्या व्यभिचार इति द्रव्यपदमिति । तदपि तुच्छम् । प्रलयात्मककालोपाधिसंसर्गाभावमा-
त्रस्यैव सर्गजनकत्वात् । मिश्रास्तु दण्डप्रागभावध्वंसात्मकदण्डजन्ये घटे व्यभिचार इति द्रव्य-
पदम् । न च तस्य ध्वंसत्वेन न कारणता उत्तरग्रन्थविरोधः ध्वंसत्वनियतकारणताकत्वस्योत्तरग्र-
न्थार्थत्वात् । अन्यथा दृष्टान्तासङ्गतैः, न हि महापटध्वंसस्य ध्वंसत्वेन कारणत्वं तथाहि खण्डपटं
प्रति समानाधिकरणपटध्वंसत्वेन कारणत्वम् यावत् तादृशपटध्वंसत्वेन वा पूर्वोत्पन्नयावत्तादृश-
पटध्वंसत्वेन वा, आद्ये द्वितीयखण्डपटोत्पत्त्यनन्तरं तत्काले वा तृतीयखण्डपटोत्पत्तिः कालवि-
लम्ब्रेन तु विलम्बे ध्वंसस्याहेतुत्वमेव कुतो ध्वंसत्वेन हेतुत्वशङ्का । द्वितीये द्वितीयखण्डपटोत्पत्तिर्न
स्यात् । तृतीयखण्डपटध्वंसस्याभावात् । तृतीये संसर्गाभावत्वमेव जनकतावच्छेदकं, वारणीययोर-
त्यन्ताभावप्रागभावयोः समानाधिकरणपूर्वोत्पन्नपदाभ्यामेव वारणात । यदि च ध्वंसत्वसंसर्गाभा-
वत्वयोर्विशिष्टयोसमनियतत्वे शरीरतौल्ये च संसर्गाभावत्वेन जनकत्वे मानाभावः । तथापि मास्तु
दृष्टान्तासङ्गतिः । तथा विवक्षाबीजं द्रव्यपदसार्थकत्वायैव तथाविवक्षास्ति । नच दण्डप्रागभावो-
पादानाप्रसिद्ध्या व्यभिचाराप्रसिद्धेः कथं द्रव्यपदस्य तद्वारकतो । नियतसामानाधिकरण्यरूपव्याप्त्या-
प्तेरप्रसिद्ध्या प्रहासम्भवेन व्याप्तिग्रहोपयिकत्वाद्विशेषणस्य समानोपादानकत्वस्य व्यापकस्यान्यत्र
मकरन्दः ।
वावश्यं वाच्यतया तत एव तदुद्धारात् । अन्यथा ब्राह्मणशरीरशालग्रामध्वंसादेर्धर्मद्वारा नारकि-
शरीरजनकत्या व्यभिचारतादवस्थ्यापत्तेः । अन्ये तु प्रागभावध्वंसात्मककपालजन्यघटे व्यभि-
चारवारणाय तदुपादानम् । न च ध्वंसत्वेन जनकत्वविवक्षयैव तद्वारणमिति वाच्यम् । ध्वंसत्वे-
नेत्यस्य ध्वंसत्वनियताया जनकत्ताया विवक्षितत्वादित्यर्थात्, तावतैव प्रतिबन्धकाभावजन्ये व्य-
भिचारस्य निरासात् । यद्यपि प्रागभावोपादानाप्रसिद्ध्या व्यभिचारोऽपि तत्राप्रसिद्ध इति कथं
तद्वारणाय तत्,, तथापि नियतसामानाधिकरण्यरूपव्याप्तिग्रहोपयिकतया सार्थकत्वम् । यद्वा, य-
द्द्रव्यध्वंसजन्यं यद्द्रव्यं तदुभयमेकोपादानकमित्यत्र तात्पर्यम् । एकोपादानकत्वञ्चान्यत्र प्रसि-
द्धमिति तत्र व्यभिचारप्रसिद्धिरिति वदन्ति । यत्तु, अवयवसंयोगध्वंसजन्यखण्डपटे व्यभिचारवा-
रणाय द्रव्यपदम् । न च तत्र साध्यमस्त्येवेति वाच्यम् । तत्संयोगाश्रयतन्तूनामपि नाशे तद्द्वि-
ष्ठमात्रसमवेतखण्डपटे तथापि व्यभिचारादिति । ततुच्छम् । तस्य महापटध्वंसोपक्षीणत्वेन ख-
ण्डपटं प्रत्यहेतुत्वात् । अन्यथा तन्तुनाशजन्यखण्डपटमादाय दोषतादवस्थ्यापत्तेः । एतेन ज-
न्यत्वेन प्रयोज्यत्वमात्रं विवक्षितमित्यपास्तम् ।
तथाचेति । दुग्धरूपरसविशेषारम्भका एवावयवाः पाकजरसविशेषशालिनो यतोऽत एव
दध्यारम्भकाः । तस्य रसविशेषात्मकत्वादित्यर्थः । यद्वा; दुग्धादिपदं द्रव्यपरमेव । दुग्धत्वादेः
परम्परासम्बन्धेन द्रव्यवृत्तित्वाभ्युपगमादिति । न विरोध इति । नैकोपादानकत्वविरोधः । रस-