सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 111, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 111

प्रथमस्तबके ] सर्वभावकारणतावादखण्डनम् । ७७
प्रकाशः ।
न च यद्दधि न तद् दुग्धारभ्यमिति स्थूले दर्शनाद्दधिद्व्यणुकं न दुग्धत्वाश्रयपरमाण्वारभ्यमिति
वाच्यम् । दधिद्व्यणुकारम्भके परमाणौ दुग्धत्वस्याऽवृत्तेः । सत्तान्यद्रव्यत्वसाक्षाद्व्याप्यजातेरेव
प्रकाशिका ।
व्यभिचारादितिचेन्न । तथापि पात्रोत्कर्षप्रयुक्तपरिमाणोत्कर्षे दध्नि व्यभिचारादिति मैवम् । तज्जन-
कमित्यस्योपादीयित इत्यत्र विशेषणत्वात् । नचैवमुक्तविशेषणेनैव दण्डवारणे उत्कर्षपदवैयर्थ्यम्। दण्डा-
वयवमादाय व्यभिचारवारकत्वात् । नच पात्रावयवमादाय तथापि व्यभिचार इति वाच्यम् । आधार-
त्वेन तस्यापि जनकत्वात् । दृष्टान्तश्चात्रमहापटमुपादाय खण्डपटो द्रष्टव्यः । नचैवमिन्धनमादाय
वह्नौ व्यभिचार एव नेति तद्वृत्तीत्यादि व्यर्थमिति वाच्यम् । शरीरोत्कर्षार्थ कजलोत्कर्षस्थले
व्यभिचारवारकत्वात् । अग्रिमप्रकाशे च पटोत्कर्षार्थोपात्ततन्तूत्कर्षेणेत्यत्र तन्तुपदमंशुपरमतो न
तेन विरोधः । केचित्तु तदुपादानोपादेयत्वं तद्योग्यतामात्रमिति पात्रोपादानोपादेयत्वं दध्नो वर्त्तत
एवेति न व्यभिचार इत्याहुः । उत्कर्षपदं च तन्मते सम्पातायातमिति द्रष्टव्यम् । उभयमतेऽपि
च उद्भूतस्पर्शस्येति विशेषणम्, तेनालोकोत्कर्षार्थोपात्तदीपोत्कर्षस्थले न व्यभिचारः। नचार्द्रेन्ध-
नोत्कर्षे धूमोत्कर्षार्थमुपाते सति व्यभिचार इति वाच्यम् । तत्र हीन्धनमात्रस्य न तदर्थमुपादा-
नमपित्वार्द्रेन्धनस्य, आर्द्रता च जलसम्बन्धरूपेति तद्वृत्तीत्यादिपदेनैव वारणात् । मिश्रास्तु यद-
र्थं यदुपादीयते तत्तदुपादानोपादेयमित्यत्र वैजात्यं गुणविरोधश्च बाधकमिति विशेषणाभ्यां तदुभ-
याभावोपवर्णनं बाधकसामान्याभावपरमिति न कापि व्यभिचार इति वदन्ति । न दुग्धत्वेति । पर-
माणुग्रहणं सम्पातायातम्, न चाग्रेतनसिद्धसाधनाभावः द्व्यणुकारम्भकस्य परमाणुतानियमेन तत्स-
म्भवादिति मिश्राः । केचित्तु कालं दुग्धत्वाश्रयमादाय बाध इति परमाणुपदमित्याहुः । दधिद्व्य-
णुक इति । तथाच प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिरिति भावः । मिश्राणां तुमते परमाणुपदत्यागे
सिद्धसाधनमिति भावः । नच यद्दधितन्न दुग्धारम्भकारभ्यमिति व्याप्तिः। अप्रयोजकत्वादिति ध्येयम् ।
सत्तान्येति । सत्तान्यपरमाणुवृत्तिजातेर्द्रव्यत्वसाक्षाद्व्याप्यत्वनियमादित्यर्थः । नन्वेवं
मकरन्दः ।
जलस्यापि तथाभावेनौदर्यानलादाह्यमात्रस्य रसवन्मात्रस्य तथाभावादिति समादधुः । तच्चि-
न्त्यम् । तत्र पक्षसमत्वेन व्यभिचाराभावात्तद्विवक्षाया वैयर्थ्यात् । आहारपरिणतिभेदेन शरीरभेदा-
भ्युपगमाच्च । किञ्चैवमपि घटोत्कर्षार्थोपादीयमानदण्डोत्कर्षेण व्यभिचारः । यदि च योग्यता-
विवक्षायां दण्डारम्भकपरमाणुना कदाचिद्घटारम्भात् साध्यसत्त्वे न व्यभिचारः, तदा भक्ष्यारम्भ-
कपरमाणुनापि शरीरारम्भावरोधः । अपि चालोकोत्कर्षार्थोपादीयमानोत्कृष्टप्रदीपादौ व्यभिचारः ।
तस्मादुद्भूतस्पर्शस्येत्यपि विशेषणं देयम् । यद्यपि योग्यताविवक्षायां दण्डघटवत् कदाचित् द-
ध्नोऽपि दुग्धोपादानोपादेयत्वे विवक्षितसाध्यस्य फलोपधानगर्भस्य न सिद्धिः । तदविवक्षायां घ-
टोत्कर्षार्थकदण्डोत्कर्षेण व्यभिचार एव । तथापि परिमाणोत्कर्षनिबन्धन एवोत्कर्षो विवक्षितः ।
घटे च स न दण्डोत्कर्षनिबन्धनः, किन्त्ववयवोत्कर्षनिबन्धन एवेत्येके । एतदनुशयादेव यदुद्भू-
त्थेत्यादिकमित्यन्ये । यदर्थं यदुपादीयते तत्तदुपादानोपादेयमित्यत्र वैजात्यं गुणविरोधश्च बाधक-
मिति प्रकृते तदुभयाभावोपवर्णनम् । उपलक्षणतया च बाधकाभावे सतीत्यत्र तात्पर्यमिति न व्य-
भिचारशङ्केत्यप्याहुः ।
न दुग्धत्वेति । दुग्धत्वाश्रयस्य कालस्य जनकत्वाद् बाध इत्यत उक्तं, परमाण्विति ।
एतेन, परमाणुग्रहणं स्वरूपकथनाय । न चाग्रेतनसिद्धसाधनासम्भवः, द्व्यणुकारम्भकस्य परमा-
णुत्वनियमेन तत्सम्भवादित्यपास्तम् । दधिद्व्यणुकेति । तथाच प्रतियोग्यप्रसिद्ध्या साध्याऽ