न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 108, कुल 176 में से
संदर्भ में पढ़ें७० न्यायबिन्दुः
स्वात्मना संदिग्धमानमुदाहर्तुमाह—
यथा वाष्पा१दिभावेन संदिह्यमानो भूतसंघातोऽ-
ग्निसिद्धावुपदिश्यमानः संदिग्धसिद्धः।
यथेति। बाष्प आदिर्यस्य स बाष्पादिस्तद्भावेन बाष्पादित्वेन
संदिह्यमानो भूतसंघात इति। भूतानां पृथिव्यादीनां संघातः समूहः।
अग्निसिद्धावग्निसिद्ध्यर्थमुपादीयमानोऽसिद्धः। एतदुक्तं भवति। यदा
धूमोऽपि बाष्पादित्वेन संदिग्धो भवति। तदासिद्धो गर्मे²करूपानिश्चयाद्धू-
मतया निश्चितो वह्निजन्यत्वादमकः। यदा तु संदिग्धस्तदा न गमक
इति। असिद्धताख्यो दोषः।
आश्रयणासिद्धमुदाहरति—
यथेह निकुञ्जे मयूरः केकायितादिति ।
यथेति। इह निकुञ्ज इति धर्मी। पर्वतोपरिभागेन तिर्यङ्निर्गतेन
प्रच्छादितो भूभागो निकुञ्जः। मयूर इति साध्यम्। केकायितादिति
हेतुः। केकायितं मयूरध्वनिः।
कथमाश्रयणासिद्ध इत्याह—
तदापातदेशविभ्रमे ।
तदापातं³ इति। तस्य केकायितस्यापात आगमनं तस्य देशः स
उच्यते। यस्माद्देशादागच्छति केकायितम्। तस्य विभ्रमे व्यामोहे सत्य-
यमाश्रयणासिद्धः। निरन्तरेषु बहुषु निकुञ्जेषु सत्सु यदा केकायितापा४त-
विभ्रमः किमस्मान्निकुञ्जातकेकायितमागतमाहोस्विदस्मा५दिति तदाश्रयणा-
सिद्ध इति।
धर्मिणो सिद्धावप्यसिद्धत्वमुदाहरति—
धर्म्यसिद्धावप्यसिद्धो यथा सर्वगत आत्मेति साध्ये
सर्वत्रोपलभमानगुणत्वम् ।
यथेति। सर्वस्मिन् गतः स्थितः सर्वगतो व्यापीति यावत्। व्यापित्व
१ क० वाष्पादियमाना। २ क० गक। ३ क० तद्घात। ४ केकायितापा-
तविभ्रमः, ख० केकायितापातनिकुंजे विभ्रमः। ५ अस्मात्, ख० अन्यस्मात्।