न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 107, कुल 176 में से
संदर्भ में पढ़ेंत्त्या व्याप्तो न शोषमात्रम् । ततो यन्मरणहेतुस्तत्तरुष्वसिद्धम् । यत्तु
सिद्धं शोषात्मकं तद्धेतुः । दिगम्बरस्तु साध्येन व्याप्तमव्याप्तं वा मरण-
मविविच्य मरणमात्रं हेतुमाह । तदस्य वादिनो हेतुभूतं मरणं न ज्ञातम् ।
अज्ञानात्सिद्धं शोषरूपम् । शोषरूपस्य मरणस्य तरुषु दर्शनात् । प्रति-
वादिनस्तु ज्ञातमतोऽसिद्धम् । यदा तु वादिनोऽपि ज्ञातं तदा वादिनोप्य-
सिद्धं स्यादिति न्यायः ।
अचेतनाः सुखादय इति साध्ये उत्पत्तिमत्त्वमनि-
त्यं वा सांख्यस्य स्वयं वादिनोऽसिद्धम् ।
अचेतनाः सुखादय इति । सुखमादिर्येषां दुःखादीनां ते सुखा-
दयः । तेषामचैतन्ये साध्ये उत्पत्तिमत्त्वमनित्यत्वं वा लिङ्गमुपन्यस्तम् ।
य उत्पत्तिमन्तोऽनित्या वा ते न चेतना यथा रूपादयः । तथा चोत्प-
त्तिमन्तोऽनित्या वा सुखादयस्तस्मादचेतनाः । चैतन्यं तु पुरुषस्य स्वं
रूपम् । अत्र चोत्पत्तिमत्त्वमनित्यत्वं वा पर्यायेण हेतुर्न युगपत् । तच्च
द्वयमपि सांख्यस्य वादिनो न सिद्धम् । परार्थो हि हेतूपन्यासः । तेन यः
परस्य सिद्धः स हेतुर्वक्तव्यः । परस्य चासत उत्पाद उत्पत्तिमत्त्वम् । सतश्च
निरन्वयो विनाशोऽनित्यत्वं सिद्धम् । तादृशं च द्वयमपि सांख्यस्यासि-
द्धम् । इहाप्यनित्यत्वोत्पत्तिमत्त्वसाधनाज्ञानाद्वादिनोऽसिद्धम् । यदि
त्वनित्यत्वोत्पत्तिमत्त्वयोः प्रमाणं वादिनो ज्ञातं स्यात् । वादिनोपि सिद्धं
स्यात् । ततः प्रमाणापरिज्ञानादिदं वादिनोऽसिद्धम् ।
सन्दिग्धासिद्धं दर्शयितुमाह—
तथा स्वयं तदाश्रयणस्य वा संदेहेऽसिद्धः ।
स्वयमिति । हेतोरात्मनः संदेहेऽसिद्धः । तदाश्रयणस्य चेति ।
तस्य हेतोराश्रयणमाश्रीयतेऽस्मिन्हेतुरित्याश्रयणं हेतोर्व्यतिरिक्त आश्रयभूतः
साध्यधर्मी कथ्यते । तत्र हि हेतुर्वर्तमानो गमकत्वेनाश्रीयते । तस्याश्रय-
णस्य संदेहे संदिग्धः ।
१ सत्त्या, क० मुद्रितपुस्तके च 'सत्ताया'। २ ततः क० तत्र। ३ हेतुभूतं, क०
हेतुज्ञात्तत्वं (अशुद्धः)। ४ परार्थो हि, ख० परार्थादि। ५ प्रमाणं, ख० प्रमाण्यं।
६ स्यात्, ख० स्यात्तदा।