न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 106, कुल 176 में से
संदर्भ में पढ़ेंतस्यासिद्धौ संदेहे वाऽसिद्धसंज्ञको हेत्वाभासः । असिद्धत्वादेव च धर्मिण्य-
प्रतिपत्तिहेतुर्न साध्यस्य न विरुद्धस्य न संशयस्य हेतुरपि त्वप्रतिपत्ति-
हेतुर्न कस्यचिदतः प्रतिपत्तिरिति कृत्वा । अयं चार्थोऽसिद्धसंज्ञाकरणादेव
प्रतिपत्तव्यः ।
उदाहरणमाह—
यथा—अनित्यः शब्द इति साध्ये चाक्षुषत्वमुभ-
यासिद्धम् ।
यथेत्यादि । अनित्यः शब्द इत्यनित्यत्वविशिष्टे शब्दे साध्ये चाक्षु-
षत्वं चक्षुर्ग्राह्यत्वं शब्दे द्वयोरपि वादिप्रतिवादिनोरसिद्धम् ।
चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणं
प्रतिवाद्यसिद्धं विज्ञानेन्द्रियायुर्निरोधलक्षणस्य मरणस्या-
नेनाभ्युपगमात्तस्य च तरुष्वसंभवात् ।
चेतनास्तरव इति तरूणां चैतन्ये साध्ये सर्वा त्वक्सर्वत्वक् । तस्या
अपहरणे सति मरणं दिगम्बरैरुपन्यस्तम् । प्रतिवादिनो बौद्धस्यासि-
द्धम् । कस्मादसिद्धमित्याह । विज्ञानं चेन्द्रियं चायुश्च³ । रूपादिविज्ञानो-
त्पत्त्या यदनुमितं कायान्तर्भूतं⁴ चक्षुर्गोलकादिस्थितरूपं तदिन्द्रियम् । आयु-
रिति लोके प्राणा उ⁵च्यन्ते । न चागमसिद्धमिह युज्यते वक्तुम् । अतः
प्रमाणस्वभावमायुरिह । तेषां निरोधो निवृत्तिः । स लक्षणं तत्त्वं यस्य
तत्तथोक्तम् । तथाभूतस्य मरणस्यानेन बौद्धेन प्रतिज्ञातत्वात् । यदि
नामैवं तथापि कथमसिद्धमित्याह । तस्य च विज्ञानादिनिरोधात्मकस्य
तरुष्वसंभवात्⁷ । सत्तापूर्वको निरोधः । ततश्च यो विज्ञाननिरोधं तरु-
ष्विच्छेत्स कथं विज्ञानं नेच्छेत् । तस्माद्विज्ञानानिष्ठेर्निरोधोऽपि नेष्टस्त-
रुषु । ननु च शोषोऽपि मरणमुच्यते । स च तरुषु सिद्धः । सत्यम् ।
केवलं विज्ञानर्सत्तया⁸ व्याप्तं यन्मरणं तदिह हेतुर्विज्ञाननिरोधश्च । तत्स-
१ अनित्यः, ख० नित्यः । २ ख० द्वयोर्द्वयोरपि । ३ चायुश्च, ख० चायुश्च तत्रविज्ञान
(अशुद्धः) चक्षुरादि जनित (अशुद्धः) । ४ ख० कार्यान्तर्भूतं । ५ ख० उच्यते ।
६ आयुरिह । तेषां, ख० आयुः । इह तेषां । ७ असंभावात् , ख० अभावात् । ८ 'विज्ञान-
सत्तया' । क० मुद्रितपुस्तके च 'विज्ञानसत्ताया' ।