निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 983, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त (२१७) ६ अ० १ पा० ८ खं०
अशन (व्यापन) करते हैं। अथवा इससे ज्वारिये दूसरे जुवा-
रिये से धन को अशन करते हैं- लेते हैं ।
उन (पासों) की स्तुति करने वाली यह ऋचा है- ॥७॥
(खं० ८)
निरु०- "प्रावेपा मा बृहतो मादयन्ति प्रवातेजा
इरिणे वर्वृतानाः । सोमस्येव मौजवतस्य भक्षो
विभीदको जागृविर्मह्यमच्छान्॥"[अ०७अ०८व३]
प्रवेपिणो मा महतो विभीदकस्य फलानि माद-
यन्ति । प्रवातेजाः प्रवणेजाः । इरिणे वर्त्तमानाः।
'इरिणं' निर्ऋणम् । ऋणातेः । अपार्णं भवति
अपरता ओषधयः अस्मात्- इतिवा ।
सोमस्येव मौजवतस्य भक्षः ।
'मौजवतः' मूजवति जातः ।
'मृजवान्' पर्वतः । मुञ्जवान् ।
'मुञ्जः' विमुच्यते इषीकया ।
'इषीका' इषतेर्गतिकर्मणः । इयमपि 'इषीका'
एतस्मादेव ।
'विभीदकः' विभेदनात् ।
'जागृविः' जागरणात् ।
मह्यम्- अचच्छत् । प्रशंसति एनान् प्रथमया
निन्दति उत्तराभिः, ऋषेः अक्षपारिचनस्य एतद्-