निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 902, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( १४४ ) ८ अ० १ पा० ३ खं०
हेतु समाप्त हो गए हैं। अब शाकपूणि आचार्य के अभिमत
उत्तर पक्ष [ द्रविणोदा इन्द्र नहीं, अग्नि है ] के हेतु कहे
जाते हैं-। ] ॥ २ ॥
(खं० ३)
(निरु०) अयमेव अग्निः द्रविणोदाः इतिशाक-
पूणिः ।
आग्नेयेष्वेवहि सूक्तेषु द्राविणोदसाः प्रवादा
भवन्ति
‘,देवा अग्निं धारयन्द्राविणोदाम्” [ऋ० सं० १,
७,३, १] । इत्यपि निगमो भवति ॥
यथो एतत्- स बलधनयोर्दातृतमः- इति ।
सर्वासु देवतासु ऐश्वर्यं विद्यते ॥
यथो एतत्-
“ओजसो जातमुत मन्य एनम्” [ऋ०सं०८,३,
४, ५] । इति चाह” इति ।
अयमपि अग्निः ओजसा बलेन मध्यमानो
जायते, तस्मात् एनम्- आह-- सहसस्पुत्रं,
सहसः सूनुं, सहसो यहुम्
यथो एतत्- अग्निं द्राविणोदस म्- आह इति।
ऋत्विजोऽत्र द्रविणोदसः उच्यन्ते। हविषो दाता-
रस्तच्च एनं जनयन्ति ।