निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 814, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त (४३) ७ अ० ३ पा० १ खं०
तृतीयः पादः।
(खं० १)
(निरु०-) तिस्रएव देवता इत्युक्तं पुरस्तात् ।
तासां भक्तिसाहचर्यं व्याख्यास्यामः ॥
अथ एतानि अग्निभक्तीनि-अयं लोकः, प्रातः
सवनं, वसन्तो, गायत्री, त्रिवृत्स्तोमो, रथन्तरं
साम, ये च देवगणाः समाम्नाताः प्रथमे स्थाने,
अग्नायी, पृथिवी, इला,-इति स्त्रियः । अथ अस्य
कर्म-वहनं च हविषाम्, आवाहनं च देवतानां,
यच्च किंचिद् दार्ष्टिविषयिकम् अग्नि कर्मैव तत्।
अथ अस्य संस्ताविका देवाः-इन्द्रः, सोमो, वरुणः,
पर्जन्यः, ऋतवः । आग्नावैष्णवं च हविः, नतु-
ऋक् संस्ताविकी दशतयीषु विद्यते । अथापि आ-
ग्नापौष्णं हविः, नतु संस्तवः, तत्र एतां विभक्ति-
स्तुतिम् ऋचम् उदाहरन्ति- ॥ १ (८) ॥
अर्थ :-तीन ही देवता हैं, यह पहिले कहा गया है।
उन देवताओं के भक्ति साहचर्य (जो २ उनका भाग है, और
उनके साथ रहता है) को व्याख्यान करेंगे;
“अथ०” यहां से ये अग्नि के भाग हैं,-अग्नि की निज
की वस्तुएं हैं. इन से अग्नि का नित्य संबन्ध है- जहां ये