निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 809, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ३७ ) ७ अ० २ पा० ३ खं०
अपि तु यद् दृश्यते अपुरुषविधंतत् । यथाअग्निः,
वायुः, आदित्यः चन्द्रमा-इति ।
(क) यथो एतत्-“चेतनावद्वद् हि स्तुतयो भवन्ति”
इति, अचेतनानि अपि एवं स्तूयन्ते । यथा-अक्ष-
प्रभृतीनि ओषधिपर्यन्तानि ॥
(ख) यथो एतत्-“पौरुषविधिकैः अङ्गैः सस्तू-
यन्ते ” इति, अचेतनेषु अपि एतद् भवति ।
“अभिक्रन्दन्ति हरितेभि रासभिः । ” [ऋ०सं०
८, ४, २९, २ ] । इति ग्रावस्तुतिः ॥
(ग) यथो एतत्-“ पौरुषविधिकै र्द्रव्यसंयोगैः”
इति एतदपि तादृशमेव ।
“सुखं रथं युयुजे सिन्धुरश्विनम् ” । [ ऋ० सं०
८, ३, ७, ४ ] ।
(घ) यथो एतत्-“पौरुषविधिकैः कर्मभिः ” इति,
एतदपि तादृशमेव ।
“ होतुश्चित्पूर्वे हविरद्यमाशत ” [ ऋ०सं० ८,
४, २९, २ ] ।
इति ग्रावस्तुतिरेव ॥
अपि वा उभयविधाः स्युः ॥