निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 748, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ३३५ ) ६ अ० ६ पा० २ खं०
( खं० २ )
निघ०—सदान्वे ॥११९॥ शिरिंविठः
॥१२०॥ पराशरः॥१२१॥ कृविर्दती॥१२२॥
करूलती ॥१२३॥
निरु०—“अरायि काणे विकटे गिरि गच्छ
सदान्वे। शिरिम्बिठस्य सत्वाभिस्तेभिष्ट्वा चात-
यामासि ॥” (ऋ० सं० ८, ८, १३, १) ॥
अदायिनि काणे विकटे ।
‘काणो’ ऽविक्रान्तदर्शनः-इति औपमन्यवः ।
कणते र्वा स्यात् अणूभावकर्मणः ।
‘कणतिः’शब्दाणूभावे भाष्यते-अनुकणति,इति।
मात्राणूभावात् ‘कणः’
दर्शनाणूभावात् ‘काणः’ ।
‘विकटः’ विक्रान्तगतिः, इति औपमन्यवः ।
कुटते र्वा स्याद् विपरीतस्य। विकुटितो भवति।
गिरि गच्छ सदानोनुवे ! शब्दकारिके ! ।
“शिरिम्बिठस्य सत्वाभिः ।” (ऋ०सं०८,८,१३,१)
‘शिरिम्बिठः’ मेघः । शीर्यते विठे ।
‘बिठम् ’ अन्तरिक्षम् । ‘ बिठम् ’ बीरिटेन
व्याख्यातम् ।