निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 73, कुल 1282 में से
संदर्भ में पढ़ेंभवति । जरिता गरिता । दक्षिणा मघोनो = मघवती ।
‘मघम्’ इति धन नामधेयम् । मंहतेर्दानकर्मणः ।
‘दक्षिणा’ दक्षतेः समर्द्धयति कर्मणः । व्यृद्धं समर्द्ध-
यति,-इति । अपिवा प्रदक्षिणा गमनात् । दिशमभि
प्रेत्य,-दिक् । हस्तप्रकृतिः । दक्षिणोहस्तो दक्षतेरुत्साह
कर्मणः, दाशतेर्वा स्याद्दानकर्मणः । हस्तो हन्तेः । प्राशु
ईं नने । देहि स्तोतृभ्यः कामान् माऽस्मानविदोंहो,
माऽस्मानतिहायदाः । भगो नो अस्तु । बृहद् वदेम स्वे
वेदने । भगो भजतेः । ‘बृहत्’ इति महतो नामधेयम् ।
परिवृढं भवति । वीरवन्तः, कल्याणवीरा वा । वीरः =
वीरयति अमित्रान् । वेतेर्वा स्याद् गति-कर्मणः । वीरयते
र्वा । ‘सीम्’ इति परिग्रहार्थीयो वा पदपूरणो वा ।
“प्रसीमादित्यो असृजत्” । प्रासृजत्-इतिवा । प्रासृजत्
सर्वतः,-इति वा । “विसीमेतः सुरुचो वेन आवः इति
च । व्यवृणोत् सर्वतः आदित्यः । सुरुचः आदित्यरश्मयः
सुरोचनात् । अपि वा ‘सीम’ [ सीमा ] इत्ये-
तदर्थकसमुपदस्माद्दृश्येत पञ्चमीकर्माणम् । सीम्नः,
सीमतः, सीमातः मर्यादतः । सीमा मर्यादा । विसौ-
व्यतिदेशौ-इति । ‘त्व’ इति विनिग्रहार्थीयं सर्वनाम,
अनुदात्तम् । अर्द्धनाम-इत्येके ॥ २ ॥
१०