निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 719, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ३०६ ) ६ अ० ४ पा० ६खं०
निरु०-“ तन्नस्तुरीपमद्भुतं पुरुवारं पुरुत्मना ।
त्वष्टा पोषाय विष्यतु राये नाभानो अस्मयुः ॥ ”
[ ऋ०सं० २, २, ११, ४] ॥
तत् नः तूर्णापि महत् सम्भृतम् आत्मना त्वष्टा
धनस्य पोषाय विष्यतु-इति ।
‘अस्मयुः’ अस्मान् कामयमानः ॥
‘रास्पिनः’ रास्पी रपतेर्वा । रसतेर्वा ।
“ रास्पिनस्यायोः ” ॥ [ ऋ० सं०२,१,१,४] ।
इत्यपि निगमो भवति ॥
‘ऋञ्जतिः’ प्रसाधनकर्मा ।
( “आवऋञ्जसे ऊर्जा व्युष्टिषु ।” (ऋ०सं०
८, ३, १०, १ ) इत्यपि निगमो भवति ॥ )
‘ऋजुः’-इत्यपि अस्य भवति ।
“ऋजुनीती नो वरुणः” । (ऋ०सं०१,६,१७,१)
इत्यपि निगमो भवति ।
‘प्रतद्वसू’ प्राप्तवसू ।
“हरी इन्द्र प्रतद्वसू अभिस्वर” । ( ऋ०सं० ६,
१, १२, २, ) । इत्यपि निगमो भवति ॥ ६ (२१) ॥
‘तुरीपम्’ (८६) यह अनवगत ‘तूर्णापि’ ( झटपट व्यापन होने वाला )
के अर्थ में है । जल का नाम है । क्यों कि-वह तूर्ण (शीघ्र) व्याप जाता है ।
अर्थः- “तन्नस्तुरीपम्” इस ऋचाका दीर्घतमा ऋषि,