निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 706, कुल 1282 में से
संदर्भ में पढ़ेंयह भी निगम है । यहां शब्द की समानता और अर्थ की
उपपत्तिका कारण ‘उरायाः’ पद का ‘उरु-कुर्वाणः’ (बहुत
करता हुआ) विपरिणाम होता है ॥ १ ॥
( खं २ )
निघ०-स्तियानाम् ॥ ७७ ॥ स्तिपाः
॥ ७८ ॥ जबारु ॥७६॥ जरूथम् ॥८०॥
कुलिशः ॥ ८१ ॥ तुञ्जः ॥ ८२ ॥
निरु०-‘स्तियाः आपो भवन्ति । स्त्यायनात् ।
“वृषा सिन्धूनां वृषभःस्तियानाम् ।” (ऋ०
सं० ४, ७, २०, १ ) इत्यपि निगमो भवति ॥
‘स्तिपाः’ स्तियापालनः । उपस्थितान् पाल-
यति इति वा ।
“स नःस्तिपा उत भवा तनूपाः” । (ऋ०
सं० ८, २, १९, ४ ) । इत्यपि निगमो भवति ॥
‘जबारु’ जवमानरोहि । जरमाणरोहि ।
गरमाणरोहि इति वा ।
“अग्ने रूप आरुपिंतं जबारु ” । ( ऋ० सं०
३, ५, २, २ ] । इत्यपि निगमो भवति ॥
‘जरूथं’ गरूथम् । गृणातेः ।
‘जरूथं’ हन्यक्षिराये पुरन्धिम् ” । ( ऋ० सं०
५, २, १२, ६ ) । इत्यपि निगमो भवति ॥