निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 684, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २७० ) ६ अ० ३ पा० ३ खं०
निरु०-“कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि रा-
जेवामवाँ इभेन । तृष्वीमनु प्रसितिं द्रूणानोऽस्ता-
सि विध्य रक्षसस्तपिष्ठैः ॥” (ऋ०सं० ३,४,२३,१)
कुरुष्व पाजः । ‘पाजः’ पालनात् ।
प्रसितिमिव पृथ्वीम् । ‘प्रसितिः’ प्रस्यनात् ।
तन्तुर्वा । जालंवा ॥
याहि राजा-इव अमात्यवान्, अभ्यमनवान्,
स्ववान् वा, इराभृता गणेन, गतभयेन, हस्तिना
इति वा ।
तृष्व्या नु प्रसित्या द्रूणाननः ।
‘तृष्वी’ इति क्षिप्रनाम । तरतेर्वा । त्वरतेर्वा ।
असितासि विध्य रक्षसः तपिष्ठैः = तप्ततमै, तृप्त-
तमैः, प्रपिष्टतमैः-इति वा ।
“यस्ते गर्भममीवा दुर्णामा योनि माशये ।”
(ऋ० सं० ८, ८, २०, २ )
‘अमीवा’ अभ्यमनेन व्याख्यातः ।
‘दुर्णामा’ क्रिमिर्भवति पापनामा ।
‘कृमिः’ क्रव्ये मेद्यति । क्रमते र्वा स्यात् सरण-
कर्मणः क्रामते र्वा ।
“अतिक्रामन्तो दुरितानि विश्वा ।” [ ]