निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 640, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २२५ ) ६ अध्याय
षष्ठाध्याय के निघण्टुस्थ कुछ प्रासङ्गिक शब्द ।
शब्द अर्थ
प्रथमः पादः ।
शुचिः शोचतेर्ज्वलतिकर्मणः। अयमपि इतरः शुचिःएत-
स्मादेव निषिक्तमस्मात्पापमिति नैरुक्ताः।(खं०१)
मुष्टिः मोचनाद्वा मोषणाद्वा मोहनाद्वा । ( खं० २ )
रोदसी द्यावापृथिव्यौ । विरोधनात् ।
रोधः कूलम् । निरुणाद्धिस्रोतः ।
कूलम् रुजते विपरीतात् । लोष्टः अविपर्ययेण ।
अपारे दूरपारे ।
बलः वृणोतेः । ( खं० ३ )
व्रजः व्रजति-अन्तरिक्षे ।
गोः माध्यमिकाया वाचः ।
सुगान् सुगमनान्पथः
निरजे निरजनाय । ( निर्गमनाय ) ।
वाशीः आपोवावहनाद्वाघोषाद्वावदनात् ।
पुरुहूतम् बहुभिः आहूतम् ।
धनन्तीः धनतिर्गतिकर्मा ।
वद्वह उदर ।
मूलम् मोचनाद्वा मोषणाद्वामोहनाद्वा । ( खं०४ )
अग्रम् आगतं भवति आकियतोदेशात् ।
सललूकम् संलुब्धं भवति पापकमितिनैरुक्ताः सरूकं वा-
स्यात् । सरतेरभ्यस्तात् ।
तपुषिः तपतेः ।
२६