निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 623, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त (१०७) ५ अ० ४ पा० १० खं०
'बीरिट' है। उसे इस ऋचा में उदाहरण करते हैं, निगम भी
है-॥ ६ (२७) ॥
(खं० १०)
[निघ०-] अच्छ ॥७८॥ परि ॥ ७६ ॥
ईम् ॥८०॥ सीम् ॥८१॥ एनम् ॥ ८२ ॥
एनाम् ॥८३॥ मृशः ॥८४॥ इति चतुर-
शीतिः पदानि ॥
(निरु०-) " प्रवावृजे सुप्रया बर्हिरेशा मा विश-
तीव बीरिटइयातं । विशामक्तोरुषसः पूर्वहूतौ
वायुः पूषा स्वस्तये नियुत्वान् ॥” (ऋ० सं० ५,
४, ६, २, )
प्रवृज्यते सुप्रायणं बर्हिः-एषाम्, एयाते सर्वस्य
पातारौ वा पालयितारौ वा । 'बीरिटम्' अन्तरि-
क्षम् । भियो वा भासो वा ततिः । अपि वा उपमार्थे
स्यात्- सर्वपती इव राजानौ बीरिटे गणे मनुष्या-
णां । रात्र्या विवासे पूर्वस्यामभिहूतौ वायुश्च नियु-
त्त्वान्, पूषा च स्वस्त्ययनाय ॥
'नियुत्वान्' नियुत' अस्य अश्वाः । 'नियुतः'
नियमनाद्वा । नियोजनाद् वा ॥
'अच्छ' अभेः । आप्तुम्-इति शाकपूणिः ॥