निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 496, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त r ( ७७ ) ४ अ० ३ पा० ५ ख०
( ५ खं० )
१ (४७)
[निरु०] “द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे
माता पृथिवी महीयम् । उत्तानयो श्चम्वो ३ र्योनि-
रन्तरत्रापितादुहितुर्गर्भमाधात् ॥” [ ऋ० सं०
२, ३, २०, ३ ]
(४७)
(भा०) “द्यौर्मे पिता” माता ( पाता ) वा
पालयिता वा । जनयिता । “नाभिरत्र बन्धुर्मे
माता पृथिवी” महती “इयम्” । ‘बन्धुः’ सम्बन्ध-
नात् । ‘नाभिः’ सन्नहनात् । “नाभ्या सन्नद्धा
गर्भा जायन्ते” इत्याहुः । एतस्मादेव ज्ज्ञातीन्
‘सनाभयः’ इत्याचक्षते । ‘ सम्बन्धवः ’ इतिच ।
‘ज्ज्ञातिः’ सञ्जानात् । “उत्तानयोश्चम्वो३र्योनि-
रन्तः ।” ‘उत्तानः’ उत्तानः । ऊर्ध्वतानो वा ।
तत्र पिता दुहितुर्गर्भ दधातिपर्जन्यः पृथिव्याः ।
( शंयुः सुखंयुः । )
(४८)
“अथानः शंयोररणो दधात” (ऋ० सं० ७,
६, १७, ४ ) ।
१-“द्यौर्मेपिता” इति । द्वयम् अस्यवामीयं दीर्घतमसः
आर्षम् । तृतीयसवने वैश्वदेवे शस्यते ।