निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 481, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ६२ ) ४ अ० ३ पा० १ खं०
चतुर्थेऽध्याये
तृतीयः पादः
( १ खं० )
[निरु०-] 'सुविते' (२८) । सुइते। सूते । सुगते।
प्रजायामिति वा । “सुविते माधा ।” [ य०वा०सं०
५, ५ ] इत्यपि निगमो भवति ।
'दयतिः' (२९) अनेककर्मा । “नवेन पूर्वं दय-
मानाः स्याम” [य०वा० २८, १६] इति उपदयाकर्मा
१“य एक इद् विदयते वसु” [ऋ०सं० १, ६, ६, २]
इति दानकर्मा वा विभागकर्मा वा । दुर्वर्तु र्भीमो
दयते वनानि” [ऋ०सं० १, ६, ८, ५] इति दहति
कर्मा । 'दुर्वर्तुः' दुर्वारः । “विदद्वसुर्दयमानो
विशत्रून्” [ऋ०सं०३,२,१५,१] इति हिंसाकर्मा ।
“ इमे सुता इन्दवः प्रातरित्वना सजोषसा
पिबतमश्विना तान् । अहं हि वामूतये वन्दनाय
मां वायसो दोषा दयमानो अबूबुधत् ” ॥
'दयमान' इति ।
'नूचित्' (३०) इति निपातः पुगणनवयोः ।
१ “यएक इद् विदयते वसु” इति राहुगणस्य गोतमस्या-
र्षम् । ऐन्द्री । उष्णिक् ।