निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 448, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २६ ) ४ अ० १ पा०३ खं०
चक्षुर्मुमुग्ध्य १ स्मान्निधयेव बद्धान् ॥ ” [ऋ०सं०
८, ३, ४, ११ ]
[ भा०-] ‘वयः’ वे र्बहुवचनम् । (सुपर्णाः) सुपतना
आदित्यरश्मयः । “उपसेदुरिन्द्रं” याचमानाः। अपो⁻
र्णुहि आध्वस्तं “ चक्षुः । ” ‘ चक्षुः ’ ख्यातेर्वा ।
चष्टेर्वा । “पूर्द्धि” पूरय, देहि-इतिवा । [४र्थ पा०]
मुञ्च “अस्मान्” पाशैरिव “बद्धान्”
“पार्श्वतः श्रोणितः शितामतः” [ य०मा०सं०
२१, ४३ ] [ गद्यः ]
[ भा०- ] ‘ पार्श्व ’ पर्शुमयम् अङ्गं भवति ।
‘पर्शुः’ स्पृशतेः। संस्पृष्टा पृष्ठदेशम् । ‘पृष्ठं’ स्पृशतेः ।
संस्पृष्टमङ्गैः । ‘ अङ्गम् ’ अङ्गनात् । अञ्चनाद्वा ।
‘श्रोणिः’ श्रोणते र्गतिचलाकर्मणः । श्रोणिश्चल-
तीवगच्छतः ।
दोः ‘शिताम’ भवति । ‘दोः’ द्रवतेः ।
‘ योनिः शिताम ’ इतिशाकपूणिः । विषितो
भवति ।
‘ श्यामतः, यकृतः ’ इतितैटीकिः । ‘ श्याम ’
श्यायतेः । ‘यकृत्’ यथा कथा च कृत्यते ।