निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 440, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त (२०) ४ अ० १ पा० १ खं०
प्रासंगिकशब्दाः
शब्द। अर्थ
स्यात् आश्लेषकर्मणः । लज्जतेर्वा स्याद् अश्लाघा-
कर्मणः ।
हरितः आदित्यरश्मयः । (हरणाः) अश्वाः इति वा
वेसरम् अहः ।
रात्री रात्रीव, इतिवा उपमार्थे “यदत्रार्थाविरोधि
तत्प्रतिपत्तव्यम्” (खं० ३)
सिलिकमध्यमाः संसृतमध्यमाः। शीर्षमध्यमा वा । (खं०५)
शिरः (आदित्यः) यद्नुशेते सर्वाणि भूतानि । मध्ये वा
एषां तिष्ठति । इदमपि 'शिरः' एतस्मादेव । समा-
श्रितानि एतद् इन्द्रियाणि भवन्ति ।
शूरः शवतेर्गतिकर्मणः ।
दिव्याः दिविजोः ।
अत्याः अतनाः ।
हंसाः हन्तेः ।
श्रेणिः श्रयतेः ।
अज्मम् वाहिका (स्वर्गपथः)
कन्या कमनीया भवति । क्वैयं नेतव्या इति वा । कनते-
र्वा स्यात् कान्तिकर्मणः ।
दारु दृणातेर्वा । द्रुणातेर्वा ।
द्रु तस्मादेव ।
सुवास्तुः नदी । (खं० ७)
शुन्ध्युः शोधनात् । आदित्यः ) शकुनिः । आपश्च ।
वक्षः भासा अध्यूढम् । इदमपि 'वक्षः' एतस्मादेव ।
अध्यूढंकाये ।