निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 363, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । ५५
तडितो याश्च अन्तिके अरातयः अदान-
कर्माणो वा । अदान प्रज्ञा वा । जम्भयता
अनमशः । [ एकपद निरुक्तम् ] आभरिति
रूप नाम । ‘आप्नोति’ इति विद्युत् ‘तडित्’
भवति । इति शाक पूर्णिः । सा हि अवताडयिति
दूराच्च दृश्यते । अपि तु-इदमन्तिकनामैव अभि-
प्रेतं स्यात् । “दूरे चित् सन्तडिदिवा तिरोधत्से”
। [ ऋ० सं० १, ६, ३१, २ ] दूरेऽपि यन्नन्तिक इव
संन्दृश्यते-इति । वज्रनामानि उत्तराणि अष्टादश ।
‘वज्रः’ कस्मात् ? वर्जयति इति सतः । तत्र ‘कुत्स’
इत्येतत् कृन्ततेः । ऋषिः ‘कुत्सो’ भवति कर्त्ता
स्तोमानाम् इति औपमन्यवः । अत्रापि अस्य
वधकर्मैव भवति । “तत्सख इन्द्रः । शुष्णं
जघान” इति ।
ऐश्वर्यकर्म्माणः उत्तरे धातवश्चत्वारः । ईश्वर-
नामानि उत्तराणि चत्वारि । तत्र ‘इन’ इति
एतत् सनित ऐश्वर्येण वा । सनितमनेन-ऐश्वर्य-
मितिवा ॥ ५ ॥