निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 329, कुल 1282 में से
संदर्भ में पढ़ें२० ३ अ० १ पा० ५ खं० ।
अर्थः ।
“अभ्रातेव” इति दीर्घतमः पुत्रस्य कक्षीवत
आर्षम् । त्रिष्टुप् । औषसी । प्रातरनुवाकाश्विनयोः
शस्यते ।”
(मन्त्रार्थः) [ १ म-पा० ] “अभ्राता इव”
'अभ्रातृका' कन्या यथा दत्ता अपि पित्रा,
स्वीकृताऽपि भर्त्रा, पुनः “पुंसः” 'पितॄन्' पितृवंशमेव
“प्रतीची” 'अभिमुखी' 'सन्तानकर्मणे पिण्डदानाय'
“एति” आगच्छति, 'न' 'पति' पतिवंशमित्यर्थः ।
एवम् उषाः अपरकाले रात्रां नभः आरोहति ।
[ द्वि० पा० ] “धनानां” “सनये” लब्धये काचिद्
दाक्षिणात्या स्त्री “गर्तारुक्-इव” यथा गर्तं सभास्था-
णुम् आरोहति तथा उषाः अपि नभः आरोहति । [ तृ०
पा० ] “जाया-इव” जाया यथा “पत्ये” भर्त्रे “उशती”
कामयमाना “सुवासाः” भूत्वा ऋतुषु आत्मानं
दर्शयति, तथा उषाः अपि आत्मानं जनानां दर्शयति ।
[ च० पा० ] “हस्रा-इव” काचित् हसनशीला स्त्री
यथा आत्मनो दन्तान् दर्शयति, तथा उषाः अपि
आत्मनोऽन्तर्गतानि सर्वद्रव्याणां रूपाणि दर्शयति ।