निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 328, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । १६
श्मशयनम् । श्मशरीरम् । शरीरं शृणातेः । शम्नाते
र्वा । श्मश्रु लोम । श्मनि श्रितं भवति । लोम
लुनाते र्वा । लीयते र्वा ।
“नो परस्या विष्कुर्यात्, यदुप॒रस्या विष्कुर्याद्
गर्त॑ष्ठाः स्यात् प्रमायुको यजमानः ।”—
इत्यपि निगमो भवति । रथोऽपि गर्त॑ उच्यते ।
गृणातेः स्तुतिकर्मणः । स्तुततमं यानम् । -
“आरोहथो वरुण मित्र गर्त॑म् ।”
[ ऋ० सं० ४, ३, ३१, ३ ]
इत्यपि निगमो भवति । जायेव पत्ये कामय-
माना सुवासा ऋतुकालेषु उषाः हसना इव
दन्तान् विवृणुते रूपाणि इति । चतस्रः उपमाः ।
“नाभ्रात्रीमुपयच्छेत तोकं ह्यस्य तद् भवति”-
इति अभ्रातृकायाः उपयमनप्रतिषेधः प्रत्यक्षः पितुश्च
पुत्रभावः । [ उत्तरार्द्धव्याख्या खं० ४ ] पिता यत्र
दुहितुः-अप्रत्ताया रेतः सेकं मार्जयति सन्दधाति-
आत्मानं सङ्गमेन मनसा-इति । अथ-एतां जाम्या
ऋक्यप्रतिषेधे—उदाहरन्ति । ज्येष्ठं पुत्रिकायाः
इत्येके ॥ ५ ॥