निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 302, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । १३७
[ निरु० ] "उतस्य वाजी क्षिपणिं तुर्र्यति ।
ग्रीवायां बद्धो अपिकक्ष आसनि ।
क्रतुं दधिक्रा अनुसन्तवीत्वत्
पथामङ्कांस्यन्वापनीफणत् ॥"
[ ऋ० सं० ३, ७, ४, ४ ]
"अपि" स "वाजी" वेजनवान् क्षेपणमनु तूर्ण म-
श्नुते अध्वानम्, “ग्रीवायां बद्धः ।” 'ग्रीवा' गिरते
र्वा । गृणाते र्वा । गृह्णते र्वा । "अपिकक्ष-आसनि"
इति व्याख्यातम् । "क्रतुं दधिक्राः" कर्म वा प्रज्ञां
वा । "अनुसन्तवीत्वत् ।” तनोतेः पूर्वया प्रकृत्या
निगमः । "पथामङ्कांसि ।” पथां कुटिलानि । 'पन्थाः'
पतते र्वा । पद्यते र्वा । पन्थते र्वा । 'अङ्कः'-अञ्चतेः ।
"अपनी फणत्"-इति फणतेः-चर्करीतवृत्तम् । दशं-
उत्तराण्यादिष्टोपयोजनानि-इति-आचक्षते-साहचर्य-
ज्ञानाय । ज्वलतिकर्माणः उत्तरे-धातवः-एकादश ।
तावन्ति- एव उत्तराणि ज्वलतो नामधेयानि नाम-
धेयानि ॥ ६ ॥
( इति षष्ठः खण्डः )
सप्तमः पादः ।
द्वितीयोऽध्यायः समाप्तः ॥ २ ॥
१८