निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 293, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । १२७
नदीके लिये ही है, किन्तु देवताके लिये नहीं ।। यह यास्काचार्य-
का अभिप्राय है। निगमोंके द्वारा शब्दोंके अर्थ इसी प्रकार-
निर्धारित होते हैं। ॥ २ ॥
( खण्ड ३ )
[ निरु० ] “रमध्वं मे वचसे सोम्याय ऋतावरी
रुपमुहूर्त्त मेवैः । प्र सिन्धुमच्छा बृहती मनीषा
वस्युरह्वे कुशिकस्य सूनुः ॥” [ ऋ० सं० ३, २, १२५ ]
“उप” “रमध्वम्” “मे” “वचसे” “सोम्याय”
सोमसम्पादिने । “ऋतावरीः” ऋतवत्यः । ‘ऋतम्’-
इति उदक-नाम । प्रत्यृतं भवति । “मुहूर्त्तम्”
“एवैः” । अयनैः, अवनैर्वा । “मुहूर्त्तः” मुहूर्त्तुः ।
‘ऋतुः’ ऋतेर्गतिकर्मणः । ‘मुहुः’ मूढ इव कालः ।
यावत्-अभीक्ष्णञ्च-इति । ‘अभीक्ष्णम्’ अभिक्षणाद्-
भवति । ‘क्षणः’ क्षणोतेः । प्रक्ष्णुतः कालः । ‘कालः’
कलयतेर्गतिकर्मणः । “प्र” अवगाहयामि “सिन्धुम्” ।
‘बृहत्या’ महत्या । ‘मनीषया’ मनस ईषया । ‘स्तुत्या’
‘प्रज्ञया वा’ । अवनाय “कुशिकस्य सूनुः” ।
कुशिको राजा बभूव । क्रोशतेः शब्दकर्मणः । क्रंशते
र्वा स्यात् प्रकाशयतिकर्मणः । साधु विक्क्रोशयिता
अर्थानाम् इति वा । नद्यः प्रत्यूचुः ॥ ३ ॥