निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 280, कुल 1282 में से
संदर्भ में पढ़ें११४ २ अ० ६ पा० ४ ख० ।
“अहश्च कृष्णं” रात्रिः, शुक्लं “च-अहः-अर्जुनं
विवर्त्तेते रजसी” “वेद्याभिः” वेदितव्याभिः प्रवृत्तिभिः
“वैश्वानरो जायमानः” इव उद्यन् आदित्यः सर्वेषां
ज्योतिषां “राजा” अवाहन् “अग्निः ज्योतिषा
तमांसि” ॥
[ निघ० ] अद्रिः ( १ )। ग्रावा ( २ )। गोत्रः
( ३ )। - वलः ( ४ )। अश्मः ( ५ )। पुरुभोजाः
( ६ )। वलिशानः ( ७ )। अश्मा ( ८ )। पर्वतः
( ६ )। गिरिः ( १० )। व्रजः ( ११ )। चरुः
( १२ )। वराहः ( १३ )। शम्बरः ( १४ )।
रौहिणः ( १५ )। रैवतः ( १६ )। फलिगः ( १७ )।
उपरः ( १८ )। उपलः ( १६ )। चमसः ( २० )।
अहिः ( २१ )। अभ्रम् ( २२ )। वलाहकः ( २३ )।
मेघः ( २४ )। दृतिः ( २५ )। ओदनः ( २६ )।
वृषन्धिः ( २७ )। व्ववः ( २८ )। असुरः ( २६ )।
कोशः ( ३० )। इति त्रिंशन्मेघनामानि ॥ १० ॥
( निरु० ) मेघनामानि उत्तराणि त्रिंशत् ।
‘मेघः’ कस्मात् ? मेहति इति सतः । आ ‘उपरः’
‘उपलः’ इति-एताभ्यां साधारणानि पर्वतनामभिः ।
‘उपरः’ ‘उपलः’-मेघो भवति । उपरमन्ते अस्मिन्-