निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 277, कुल 1282 में से
संदर्भ में पढ़ें“रुशद्वत्सा” सूर्यवत्सा । :
“रुशत्”-इति वर्णनाम । रोचते-र्ज्वलति
कर्मणः । सूर्य्यमस्या वत्सञ्जाहुः । साहचर्य्याद् रसहर-
णाद्-वा । “रुशती श्वेत्या गात् ।” “श्वेत्या”
श्वेततेः । अरिचत् “कृष्णा” सदनानि अस्याः ।
कृष्णवर्णा रात्रिः । ‘कृष्ण’ कृष्यतेः निकृष्टो वर्णः ।
अथ-एने संस्तौति-“समानबन्धू” समानबन्धने
“अमृते” अमरणाधर्माणौ ‘अनूची’-इति-इतरे-
तरमभिप्रेत्य । “द्यावा वर्णं चरतः” ते एव । द्यावौ
द्योतनात् । अपि वा “द्यावा चरतः” ‘तया
चरतः’-इति स्यात् । “आमिनाने” अन्योन्यस्य
अध्वात्मं कुर्वाणे ।
अहर्नामानि उत्तराणि द्वादश । अहः कस्मात् ?
उपाहरन्ति अस्मिन् कर्माणि । तस्य-एष निपातो
भवति, वैश्वानरीयायाम्-ऋचि ॥ ३ ॥
अर्थ ।
“रुशद्वत्सा” सूर्यवत्सा “रुशती” चात्मनाऽपि
रोचनशीला “श्वेत्या” श्वेतवर्णा (उषाः) “आगात्”
आगच्छति । “कृष्णा” कृष्णवर्णा रात्रिः च “अस्याः”
सदनानि “आरैक्” आरेचयति जहातीत्यर्थः ।