निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 258, कुल 1282 में से
संदर्भ में पढ़ें६२ २ अ० ४ पा० २ ख०।
आदित्यप्रवादाः। आदित्येन आदित्य-इति नाम्ना प्रवादः
प्रकर्षेण वादः स्तवनं यासु, ताः आदित्यप्रवादाः। जिन स्तुतियोंमे
आदित्य नामसे विशेष कर स्तुति या कथन हो वे स्तुतियें आदित्य-
प्रवाद होती हैं ॥ १ ॥
(खण्ड २)
(निरु०) 'स्वः'—आदित्यो भवति । सु-अरणः,
सु-ईरणः। स्वृतो रसान् । स्वृतो भासं ज्योति-
षाम्। स्वृतो भाषा-इति वा। एतेन द्यौ
व्याख्याता । 'पृश्निः' आदित्यो भवति । प्राश्नुते-
एनं वर्णः-इति नैरुक्ताः । संस्पृष्टा रसान् ।
संस्पृष्टा भासं ज्योतिषाम् । संस्पृष्टो भासा-इति
वा । अथ द्यौः-संस्पृष्टा ज्योतिर्भिः पुण्यकृद्भिञ्च ।
'नाकः' आदित्यो भवति । नेता भासाम् । ज्योतिषां
प्रणयः। अथ द्यौः-'कम्'-इति सुखनाम, तत्
प्रतिषिद्धं प्रतिषिध्येत ।
“न वा अमुं लोकं जग्मुषे किञ्च नाकम्” ।
न वा अमुं लोकं जग्मुषे किञ्चन-असुखम्,
पुण्यकृतो हि-एव तत्र गच्छन्ति। 'गौः' आदित्यो
भवति । गमयति रसान् । गच्छति-अन्तरिक्षे ।
अथ “द्यौ”-यत्-पृथिव्या अधि दूरं गता भवति ।
यच्च-अस्यां ज्योतींषि गच्छन्ति । 'विष्टप्' आदित्यो