निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 207, कुल 1282 में से
संदर्भ में पढ़ें२ अ० २ पा० १ खं०।
द्वितीय पादः ।
अथ निघण्टु प्रथमाध्यायः ॥ १ ॥
[निघ०-] गौः (१) । ग्मा (२) । ज्मा (३) । क्ष्मा
(४) । क्षा (५) । क्षमा (६) । क्षोणिः (७) ।
क्षितिः (८) । अवनिः (६) । उर्वी (१०) ।
पृथ्वी (११) । मही (१२) । रिपः (१३) ।
अदितिः (१४) । इला (१५) । निर्ऋतिः
(१६) । भूः (१७) । भूमिः (१८) । पूषा
(१६) । गातुः (२०) । गोत्रा (२१) । इति-
एकविंशतिः पृथिवीनामधेयानि ॥ १ ॥
( खं० १ )
अथ-अतः-अनुक्रमिष्यामः । ‘गौः’-इति पृथिव्या
नामधेयम् । यद् दूरं गता भवति । यत् च अस्यां
भूतानि गच्छन्ति । गतेर्वा ‘औ’कारो नामकरणः ।
अथापि-पशुनाम इह भवति-एतस्मात्-एव ।
अथापि-अस्यां ताद्धितेन कृत्स्नवत्-निगमा भ-
वन्ति । [ यथा-] “गोभिः श्रीणीत मत्सरम्” [ऋ०
सं०; ७, १, ३, ४ ] इति पयसः । ‘मत्सरः’ सोमः,
मन्दतेः-तृप्तिकर्म्मणः । ‘मत्सरः’-इति लोभनाम ।
अभिमत्तः एनेन धनं भवति । ‘पयः’ पिबतेर्वा;