निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
DevanagariHindipublished1,282 पृष्ठ
पृष्ठ 1229, कुल 1282 में से
संदर्भ में पढ़ेंपृष्ठ 1229
अथद्वादशोऽध्यायः ॥
प्रथमः पादः ।
[ खं० १ ]
निघ०- अश्विनौ ॥१॥ उष्राः ॥ २ ॥
सूर्या ॥ ३ ॥ वृषाकपायी ॥ ४ ॥ संर-
ण्यूः ॥५॥
निरु०- ॐ॥ अथातो द्युस्थाना देवताः ।
तासाम् अश्विनौ प्रथमागामिनौ भवतः
'अश्विनौ' यद् व्यश्नुवाते सर्वम्, रसेन अन्यः
ज्योतिषा अन्यः ।
“अश्वैः अश्विनौ”- इति और्णवाभः ।
तत् कौ अश्विनौ ?
“द्यावापृथिव्यौ”- इत्येके ।
“अहोरात्रौ”- इत्येके ।
“सूर्याचन्द्रमसौ”- इत्येके
“राजानौ पुण्यकृतौ”- इति ऐतिहासिकाः ।
तयोःकालः ऊर्द्धवम् अर्द्धरात्रात् प्रकाशीभावस्य
अनुविष्टम्भम् अनु तमोभागो हि मध्यमः,ज्योति-
र्भागः आदित्यः ।
तयो एषा भवति ॥१॥