निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 119, कुल 1282 में से
संदर्भ में पढ़ेंअ० १ पा० ५ खं० १ ।
पञ्चमः पादः ।
( १ खं० )
अथापि इदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न
विद्यते । अर्थमप्रतियतो न अत्यन्तं स्वरसंस्का-
रोद्देशः । तदिदं विद्यास्थानं, व्याकरणस्य कार्त्स्न्यं
स्वार्थसाधकं च । यदि मन्त्रार्थप्रत्ययाय, अन-
र्थकं भवति,—इति कौत्सः । अनर्थका हि मन्त्राः,
तदेतेन उपेक्षितव्यम् । नियतवाचो युक्तयो निय-
तानुपूर्व्या भवन्ति । अथापि ब्राह्मणेन रूपसम्पन्ना
विधीयन्ते । “उरु प्रथस्व” इति प्रथयति ।
“प्रोहाणि”-इति “प्रोहति ।” अथापि अनुपप-
न्नार्था भवन्ति । “ओषधे त्रायस्वैनम्” “स्वधिते
मैनं हिंसीः” इत्याह हिंसन् । अथापि विप्रति-
षिद्धार्था भवन्ति । “एक एव रुद्रोऽवतस्थे न
द्वितीयः ।” “असंख्याता सहस्राणि ये रुद्रा अधि-
भूम्याम्” । “अशत्रुरिन्द्र जज्ञिषे” “शतं सेना
अजयत् साकमिन्द्रः” इति । अथापि जानन्तं
सम्प्रेष्यति—‘ अग्नये समिध्यमानायानुब्रूहि”-इति ।
अथापि आह “अदितिः सर्वम्” इति । “अदिति-