निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 1063, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २६७ ) १० अ० १ पा० ८ खंड
लोक या मुख्य स्थान द्युलोक है, भिन्न २ लोक उनके कर्माधि-
कार को लेकर ही बताए हैं ॥ ७ ॥
( खं० ८ )
निरु०-“जराबोध तद्विविड्ढि विशे विशेयज्ञि-
याय। स्तोमं रुद्राय दृशीकम्॥”[ऋ०सं० १, २, २३, ५]
( सा० सं० छ० आ० १, १, २, ५) ॥
‘जरा’ स्तुतिः । जरतेः स्तुतिकर्मणः । तां बोध
तया बोधयितः ! इति वा । तद् विविड्ढि तत्
कुरु मनुष्यस्य मनुष्यस्य यजनाय स्तोमं रुद्राय
दर्शनीयम् ॥
‘इन्द्रः’ इरां दृणाति-इति वा ।
इरां ददाति- इति वा ।
इरां दधाति-इति वा ।
इरां दारयते-इति वा ।
इन्दवे द्रवति- इति वा ।
इन्दौ रमते-इति वा ।
इन्धे भूतानि-इति वा ।
“ तद्यदेनं प्राणैः समैन्धं स्तदिन्द्रस्येन्द्रत्वम्
इति विज्ञायते ”
इदं करणाद्-इति-आग्रायणः ।
इदं दर्शनाद्-इति औपमन्यवः ।