निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 1055, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २८६ ) १० अ० १पा० ५खंड
( खं० ५ )
निरु०-“तमूषुसमना गिरा पितॄणाञ्च मन्मभिः ।
नांभा कस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्त-
स्वसास मध्यमो नभन्तामन्यकेसमे ॥ ” (ऋ०सं०
६, ३, २६, १) ॥
तं स्वभिष्टौमि समानया गिरा = गीत्या =
स्तुत्या, पितॄणां च मननीयैः स्तोमैः, नाभाकस्य
प्रशस्तिभिः ।
ऋषि 'र्नाभाको' बभूव, यः स्यन्दमानानाम्-
आसाम्-अपाम्-उपोदये सप्तस्वसारम्-एनम्-आह
वाग्भिः- 'सः मध्यमः'- इति निरुच्यते। अथ एष
एव भवति ।
“ नभन्तामन्यके समे ” मा भूवन्नन्यके सर्वे-
येनो द्विषन्ति दुर्धियः = पापाधियः = पापसंकल्पाः॥
‘रुद्रः’ रौति- इति सतः । रोरूयमाणो द्रवति-
इति वा । रोदयते र्वा । “ यदरुदत्तद् रुद्रस्य
रुद्रत्वम्” इति काठकम् । “यदरोदीत् तद् रुद्रस्य
रुद्रत्वम्”-इति हारिद्रविकम् ॥
तस्य एषा भवति ॥५॥
अर्थः- (अहम्) मैं ‘तम्’ उस वरुण को ‘समना’(समानया)
उसके योग्य ‘गिरा’ ( गीत्या = स्तुत्या )स्तुति से ‘पितॄणां ’
च’ और पितरों के ‘मन्मभिः’ (मननीयैः स्तोमैः) मनन करने