नाट्यशास्त्र: भाग २ (भरत मुनि - प्रदीप हिन्दी व्याख्या सहित: संगीत, वाद्य, ताल एवं रस-विधान)
Natyashastra Part 2 of Bharata Muni with Pradipa Commentary
महर्षि भरत मुनि (टीकाकार: पं. बाबूलाल शुक्ल शास्त्री) द्वारा
पृष्ठ 477, कुल 668 में से
संदर्भ में पढ़ें३६६ नाट्यशास्त्रम्
यानि स्युस्तीक्ष्णरूक्षाणि दीप्ता चोच्चा¹ च तेष्वपि ।
एवं नानाश्रयोपेतं पाठ्यं योज्यं प्रयोक्तृभिः ॥ ५७ ॥
दीप्त तथा उच्च काकु स्वर तब रखे जाए जब कि उच्चारित शब्दों में
कुछ तीखापन या खुरदरापन (प्रकट होता) हों। इस प्रकार नाट्य निर्देशक
विविध आश्रयों से युक्त काकु-स्वरों का 'पाठ्य' में प्रयोग करें ॥ ५७ ॥
विभिन्न रसों में नियत काकु स्वर—
हास्य शृङ्गारकरुणेष्विष्टा काकुर्विलम्बिता ।
वीररौद्राद्भुतेषूच्चा दीप्ता ²वापि प्रशस्यते ॥ ५८ ॥
भयानके स बीभत्से द्रुता नीचा च कीर्तिता ।
एवं भावरसोपेता काकुः³ कार्या प्रयोक्तृभिः ॥ ५९ ॥
हास्य, शृङ्गार तथा करुण रस में 'विलम्बित' काकु स्वर और वीर,
रौद्र तथा अद्भुत रसों में 'दीप्त' काकु स्वर प्रशस्त होता है ॥ ५८ ॥
तथा भयानक और बीभत्सरस में द्रुत और नीच काकु स्वर उत्तम
होता है। इस प्रकार भाव तथा रसों के अनुकूल काकु स्वरों की उचित
प्रदेशों में योजना की जाए ॥ ५९ ॥
उच्चारण के छः अंग—
⁴अथाङ्गानि षट् —विच्छेदोऽर्पणं विसर्गोऽनुबन्धो दीपनं प्रशमन-
⁵मिति । तत्र विच्छेदो नाम ⁶विरामकृतः । अर्पणं नाम ⁷लीलायमान-
मधुरवल्गुना स्वरेण पूरयतेव रङ्गं⁸ यत् पठ्यते तदर्पणम् । विसर्गो
नाम ⁹वाक्यन्यासः । अनुबन्धो नाम ¹⁰पदान्तरेष्वपि विच्छेदः
¹¹अनुच्छ्वसनं वा । दीपनं नाम त्रिस्थानशोभि वर्धमानस्वरञ्चेति ।
प्रशमनं नाम तारगतानां स्वराणां¹² प्रशाम्यतामवैस्वर्येणावतारण-
मिति¹³ ।
१. वोच्चा—ख० । २. चापि—ग० ।
३. काकुर्योज्या—ख०; ग० । ४. अथ षडङ्गानि—क० ।
५. इति षडङ्गानि—ख०; ग० । ६. विरामः—क० ।
७. लीलावर्णस्वरूपेणापूरयदि—ख०; ग० ।
८. रसं—क० । ९. वाक्योपन्यासः—क० ।
१०. पदस्य विच्छेदमन्तरेणातुच्छ्वासनं—क०; पदान्तरेष्वविच्छेद—ग० ।
११. अनुच्छ्वननं वा—ख०; अनुइच्छ्वासनं वा—ग० ।
१२. स्वराणामेकस्वर्येण—क०; णावरोहण—ख०; णावतरणमिति—ग० ।