सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

१४४ नलचम्पूः ।
१तरुशिरःस्थितशब्दानुमेयमाद्यन्मयूरमण्डलेषु मदनालसपुलिन्दराजसु-
न्दरीशिक्ष्यमाणवनकपोतकुक्कुटकुक्कुहकुलकुहरितेषु कूजत्कुररपरिवा-
रितसरःपरिसरेषु २चेलच्चकोरसारसरवरमणीयेषु विहरतु देवः सह
सैन्येन नर्मदोर्मिमन्दानिलान्दोलितलतापल्लवेषु वनेषु ॥ क ॥
राजापि श्रुतशीलेन दर्शितांस्तांस्तान्३देशानवलोक्य चिन्तितवान्
॥ ख ॥
'कृतक्रीडाः क्रोडैर्मदकलकुरङ्गी४हृतमृगाः
परिभ्राम्यद्भृङ्गाः परभृतकुलाक्रान्ततरवः ।
वनोद्देशाः पौष्पैः सुरभितदिगन्ताः परिमलै-
र्न चेतः कस्यैते विलसितविकारं विदधति ॥ ४८ ॥
इतश्च ।
वीचीनां निचयाः स्पृशन्ति जलदानुद्गन्धिसौगन्धिका
नृत्यत्केकिकदम्बकानि विकसद्भीरुन्धि रोधांसि च ।
धत्ते सैकत५मुन्नदन्मदकल६क्रौञ्चावलीसारसा-
नस्याः पद्मपरागपिञ्जरपयसः सेव्यं ७चँ सिन्धोर्न ८किम्॥४९॥
तदुचितमिहाद्य ९दिवसमावासं कर्तुम्' इति विचिन्त्य भ्रूकोणसं-
ज्ञाज्ञापितसेनासंनिवेशस्तत्कालमेव 'विरचयत तुरङ्गममन्दुुराः सरस-
दीर्घदूर्वा१०नलनीलनिम्नस्थलीषु, कुरुत कायमानानि सरित्सेव्यसैकतेषु,
उन्नमयत पटकुटीः कूलकाननेषु, आलानयत ११मदमत्तमत्तङ्गजान्१२मर्दैके-
ण्डूकपोलकाषसहेषु सरलसालसल्लकीसर्जार्जुनस्कन्धेषु, दूरमुत्सारयत
शैवलशिलाजालकाष्ठकूटकण्टकपटलानि, समीकुरुत विषमभूभागान्'
इति सेनापतिप्रमुखमुखरलोककलकल१३मुत्तालमुत्थितमसहमानस्तद्वि-
भ्रान्त्या कुसुमिताशोककाननानि परिहृतानीति भावः ॥ क ॥
वीचीनामिति ॥ उद्गन्धिसौगन्धिका वीचिनिचया जलदान्स्पृशन्ति । रोधां-
सि च स्पृशन्ति । तदेवं यस्याः सिन्धोः, किं वा न सेव्यम् । चकारो वार्थे ॥४९॥
तदुचितमिति ॥ मन्दुुरा वाजिहाला । कायो माल्यत्रेति कायमानं लोकप्र-
सिद्ध्या रोहिषादितृणमयावासविशेषः । मदमत्तमत्तङ्गजानिति । मदेन वीर्यविपाकेन
१ 'तरुशिखरशिरः'. २ 'चरत'. ३ 'प्रदेशान्'; 'उद्देशान्'. ४ 'वृत'. ५ 'मुन्नमन्'.
६ 'क्रौञ्चावलीः सालसास्तस्याः'. ७ 'न'. ८ 'किमु'. ९ 'समावासं'. १० 'नाल'.
११ 'समदमत्तङ्गा'. १२ 'मलकण्डूलकपोल'. १३ 'मुत्तुङ्गमत्थित'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १४५
रामावसरं प्रतिपालयन्नेकान्तेऽन्यतमप्रदेशे तस्याः सरितः सूक्ष्ममुक्ता-
फलक्षोदधवलवालुकापुलिनपृष्ठ एवास्थानगोष्ठीं बबन्ध ॥ क ॥
अथ नातिदूरे पुरोऽस्य शीतशैवलचक्रवाले चरतश्चक्रवाककदम्ब-
कस्य मध्ये कोऽप्युत्क्षिप्य पक्षपुटम्, उन्नमय्य ग्रीवाग्रम्, अनङ्गपर-
वशो दूरादुपसर्पन्ननुरागिणीं कांचिच्चक्रवाकीं, दर्शितचाटुचातुर्यश्चक्र-
वाकयुवा दृष्टिपथमवातरत् ॥ ख ॥
अपरे च चत्वारो राजहंसास्तामेव चक्रवाकीं कामयमानास्तमाप-
तन्तमन्तरान्तरा निपत्य स्खलयांबभूवुः ॥ ग ॥
तांश्चावलोक्य राजा विहसन्नासन्नवर्तिनं श्रुतशीलमावभाषे ॥ घ ॥
'वयस्य, विलोक्यतामिदमसमञ्जसम् ॥ ङ ॥
अमी राजहंसाः सतीष्वपि स्वजात्युचितानुचरीषु कथमण्यासक्ता-
मपीमां चक्रवाककामिनीं कामयन्ते ॥ च ॥
न खल्वेषामियमनङ्गभूमिः ॥ छ ॥
अथवा
किमु कुवलयनेत्राः सन्ति नो नाकनार्य-
स्त्रिदिवपतिरहल्यां तापसीं यत्सिषेवे ।
हृदयतृणकुटीरे दीप्यमाने स्मराग्ना-
वुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ॥ ५० ॥
एवंवादिनि राजनि, अकस्मात्कोमलकण्ठकुहरप्रेङ्खोलनालंकारसु-
न्दरोऽमन्दमूर्छनावच्छिन्नसरसस्वरस्वरूपः प्रसन्नप्रयुज्यमानतानविशे-
षोभिव्यक्तिस्पष्टश्रुतिसुभगो गगने गान्धारग्रामगामी गीतध्वनिरुदच-
रत् ॥ ज ॥
मत्ता नलोषधादिप्रयोगात् । जालानि मर्कडिकाख्यकृमिकृतगृहाणि । कूटं वप्रम्
॥ क ॥
न खल्विति ॥ यथा चक्रवाकी चक्रवाकस्य सजातीया, एवं मनुष्यजातेर्न-
लस्य मानुषी दमयन्त्युचिता । यथा हंसानां सानुचिता, एवं लोकपालानामति
दमयन्तीति ॥ छ ॥
किमु इति ॥ ह्रस्वा कुटी कुटीरः । 'ह्रस्वे' इत्यधिकारे 'कुटीशमी-'
इति सूत्रेण रप्रत्ययः ॥ ५० ॥
१ 'अन्तरा'. २ 'तां च'. ३ 'एतेषाम्'. ४ 'अनङ्गक्रीडाभूमिः'. ५ 'त्रिदश'.
६ 'अभिव्यक्त'.
१९

१४६ नलचम्पूः ।
अैवाहीच्च चलदलिपटलपीयमानापूर्वपरिमलोद्गारिपारिजातमञ्जरी-
मकरन्दबिन्दुवर्षवाही वायुः ॥ क ॥
अथ कौतुकोत्तानितानेनेन नरपतिनाप्यदृश्यत, शातकुम्भभङ्गोपि-
शङ्गप्रभामण्डलमध्यवर्तिनः प्रधानपुरुषस्याग्रे गृहीतजात्यजाम्बूनददीर्घ-
दण्डः कुण्डलालंकारवानुन्मिषन्मन्दारमुकुलमालामण्डितमौलिरवतर-
न्नम्बराग्निर्निमेषः सुवेषः पुरुषः ॥ ख ॥
अवतीर्य च सोऽतिविस्मयविस्फारितविलोचनमवनिपालमवा-
दीत् ॥ ग ॥
'निषधेश्वर, त्वरितमुत्तिष्ठ । अर्घाय सज्जो भव ॥ घ ॥
किं न पश्यसि ।
अवतरति घृताचीस्कन्धविन्यस्तहस्तः
श्रुतिसुखकृतगीते किंनरे दत्तकर्णः ।
किमपि सपरिरम्भं रम्भयारभ्यमाण-
व्यजनविधिरधीशः स्वर्गिणामेष देवः ॥ ५१ ॥
अपि च ।
विरचितपरिवेशाः स्वाभिरङ्गप्रभाभि-
र्भुवनवहनभारोद्धारधुर्यांसपीठाः ।
उरसि परिविलोलदीर्घदामान एते
यमवरुणकुबेराः स्वामिनो लोकपालाः ॥ ५२ ॥
राजा तु तदाकर्ण्य ससंभ्रमोत्थानवशवलितोत्तरीयाञ्चलस्खल-
त्कनककंकणरणत्कारमुखरितमाधाय मूर्ध्नि संपुटितपाणिपल्लवयुगल-
माश्चर्यरसरभसवशसमुच्छ्वास्यमानसवाङ्गपुलकः कतिपयपदान्यभिमु-
खं सह परिजनेनोच्चलितवान् ॥ ङ ॥
अथ सकलसुरशिरःशेखरायमाणचरणरेणुरनेकनाककामिनीकुचकु-
म्भकुङ्कुममञ्जरीमुद्राङ्कितविपुलवक्षःस्थलीदृश्यमानमहानीलमणिमण्ड-
ननिभभव्यवृत्रशत्रुव्रणः, श्रवणशिखरारोपितप्रत्यग्रपारिजातमञ्जरीग-
अथ सकलेति ॥ अथानन्तरं पूर्वदिग्भागव्योम्नः पुरंदरोऽवातरत् । हारय-
ष्टिर्मुक्तालता । अन्यत्र हरस्येयं हारी यष्टिः शूललक्षणा । अन्धको दैत्यविशेषः ।
१ 'अवाच्च'. २ 'कुम्भनिभाङ्ग'. ३ 'लोचन'. ४ 'धरण'; 'भरण'. ५ 'संपुटपाणि'.
६ 'रभसोत्थाप्यमान'. ७ 'शिरःशयचरण'; 'शिरःपर्यस्तचरण'; 'शयनचरण'. ८ 'नि-
रुद्ध'; 'निभस्य'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १४७
लद्वहत्किंजल्ककणानुपान्ते गायतास्तुम्बुरोः साक्षादमृतायमानगीतर-
सतुषारानिव परिपूर्णकर्णोद्गीर्णान्कपोलपालिलभानुद्वहन्, अनवरतश-
चीचुम्बनसंक्रान्तताम्बूललाञ्छनायमानाच्छाच्छहरिचन्दननिरुद्धव-
न्धुरस्कन्धसंधिः, अन्धक इव हारयष्ट्यास्फ़ालितवक्षःस्थलः, विन्ध्यगिरि-
रिव सहस्राक्षः, पन्नगेन्द्र इव कुण्डली पातालमुद्भासमानश्च, ❊कलिकाल-
शापावतीर्णसरस्वतीगीतप्रवाह इव मत्तमातङ्गगामी, दिशि दिशि वि-
कीर्णकनककपिशांशुंशुमानिवाविकृतपद्मरागारुणप्रभामण्डलमण्डनः,
सह लोकपालैर्भगवान्पुरंदरः पूर्वदिग्भागान्म्वरादवातरत् ॥ क ॥
अवतीर्य चक्षुषां सहस्रेणोन्मीलन्नीरजवनानुकारिणा निरूप्य पाद्-
योः पुरः पतितमष्टाङ्गाश्लिष्टभूतलमिमम्, ऐरावतकुम्भकूटास्फालन-
कर्कशाङ्गुलिना, दुर्दान्तदैत्यदानववधूवैधव्यदानशालामूलस्तम्भेन, श-
चीकुचकलशसंस्पर्शसंक्रान्तकुङ्कुमपत्रवल्लीकेन, दक्षिणपाणिना, सहेल-
मुन्नमय्य मूर्ध्नि पस्पर्श ॥ ख ॥
कृत्वा च कुशलप्रश्नालापव्यवहारानुच्चैः काञ्चनासनं समुल्लसन्म-
णिमयूखमञ्जरी जालजटिलमवनिभुजा ^२स्वभुजोपनीतमध्यतिष्ठत् ॥ ग ॥
उपविष्टेषु यथोचिता^३सँन्नमासनेषु यमवरुणकुवेरप्रमुखेषु देवेषु क्रमे-
ण कृतोचिताचारः पुरः पृथ्वीपृष्ठ एव ^४विनैयन्निपद्य नृपधेश्वरः पुरं-
दरमवादीत् ॥ घ ॥
दिष्ट्या दिवौकसां नाथ जातो युष्मत्समागमात् ।
आकल्पं कीर्तनीयानां श्रेयसामस्मि भाजनम् ॥ ५३ ॥
अपि च ।
सहस्रमक्षीणि यस्य । 'बहुव्रीहौ-' इति समासान्तः षच् । विन्ध्यपक्षे सहस्र-
शब्दः प्राचुर्यवचनः । अक्षा बिभीतकाः । कुण्डलं कर्णांलंकारः तद्वान् । तथा
पाता रक्षिता । अलमर्थे रोचमानश्च । पन्नगेन्द्रस्तु कुण्डलाकारः । तथा पाताले
मृतपातालमुत्त्या भासमानः । मत्तमातङ्ग औचित्यादैरावणः क्लीबचाण्डालश्च ।
पद्मरागस्य मणेर्यरुणं लोहितं प्रभामण्डलं तन्मण्डनमस्य । अंशुमांस्तु अविकृतः
पद्मानां रागोऽरुणस्य प्रभा मण्डलं विम्बम् । एतानि मण्डनं यस्य ॥ क ॥
❊ पुराणादौ किल श्रूयते—पुरा सरस्वतीदधीच्योर्देवैलविषये संवादे जायमाने
क्रुद्धेन दधीचिना शप्ता सती सरस्वती कलिकालै चाण्डालकुलेऽवततार । अतएव
कलिकालै चाण्डाला एव मधुरं गायन्तीति विवृतिनामवटीका ॥
१ 'लाञ्छनाच्छाच्छ'. २ 'स्वहस्तोप'. ३ 'सनमासनेषु'; 'चितमासनमासनेषु'.
४ 'सविनय'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१४८ नलचम्पूः ।
इष्ट्वा क्रतून्युगशतानि तपश्चरित्वा
वाञ्छन्ति संगमरसुखं मुनयोऽपि येषाम् ।
तेषामनुग्रहकृतां स्वयमेत्य मेऽद्य
युष्माकमादिशत किं प्रियमाचरामि ॥ ५४ ॥
इति प्रकाशितप्रश्रयालापे पार्थिवपुंगवे पुरंदरो दरदलितकुन्दकलि-
काकान्तदन्तद्युतिद्योतिताधरदलमीषद्विहस्य लीलावलीतकंधरः कुबेर-
मुखमवलोकयांचकार ॥ क ॥
सोऽपि 'निषधेश्वर, श्रूयतामस्मदागमनकारणम् ॥ ख ॥
'अस्ति विदर्भाधिपतेर्भीमभूमिपालस्य सुता सुतारनयननिर्जितेन्दी-
वरा वरार्थिनी निजकान्तितिरस्कृतत्रिदिवनारीरूपसंपत्तिः कुन्ददन्ती
दमयन्ती नाम ॥ ग ॥
तस्याश्च चम्पकदलावदातदेहायाः किल स्वयंवरमहोत्सवः सांप्रतं
प्रस्तुत:' इति नारदादधिगम्य वयमपि विदर्भाधिपतिपुरं प्रस्थिताः॥घ॥
किंतु लघयति पुरुषं स्वमुखेनार्थिभावो यतः तत्र गत्वापि दम-
यन्तीं किं ब्रूमो वयमिन्द्रादयो लोकपालास्त्वामर्थयामहे इत्यसदृशं
महिन्नोऽस्मद्विधेषु, स्पृहणीयरूपासि कं नोत्सुकयसीत्यनुचितमपरिचि-
तेषु चाटुचातुर्यम्, अजराः खल्वमरा वयमिति ग्राम्यः स्वप्रशंसोप-
क्रमः, प्राप्नुहि त्रयाणामपि लोकानामाधिपत्यमस्मत्सङ्गमादिति मह-
त्प्रागल्भ्यप्रलोभनम्, अल्पायुषो मनुष्यास्तदस्माकं देवानां मध्ये कं-
चिद्वृणीष्वेति पापीयः परदोषोदाहरणद्वारेणाभ्यर्थनम् ॥ ङ ॥
अतो देशकालकार्योक्तिकुशलस्त्वमुच्यसे । गच्छाग्रे, भव दूतो
देवाना मशेषवैदग्ध्यविशेषोक्तिकविद, किमन्यदिह शिक्ष्यसे, तैस्तैरु-
पायैः, ताभिस्ताभिः कलाभिः, तैस्तैः प्रलोभनप्रकारैः, क्रियतां देव-
कार्यम्, आर्याणां प्रायः परोपकारकरणार्थमेव जन्म च जीवितं च, न
च भवन्तमस्मदनुभावादन्यः कोऽपि कन्यान्तःपुरे रहस्यपि वर्तमानां
विदर्भेश्वरसुतामुपसर्पन्तमुपलक्षिष्यते' इत्यभिधाय व्यरंसीत् ॥ च ॥
इति प्रकाशितेति ॥ दरदलितेत्यत्र दरेत्यव्ययमीषदर्थे ॥ क ॥
अस्तीति ॥ कुन्ददन्तीत्यत्र 'नासिकोदरौ-' इति सूत्रेण ङीष् ॥ ग ॥
१ 'स्वयमेव मेऽद्य'. २ 'प्रकाशितप्रश्रये'. ३ 'निर्जित'. ४ 'धिपपुरं'; 'धिपतेः पुरं'.
५ 'मद्विधेषु'. ६ 'प्रागल्भ्यप्रमं प्र'. ७ 'मानुषाः'. ८ 'अथोदेश'. ९ 'विशेषकोविदः'.
१० 'उपलब्धिष्यते'.

पञ्चम उच्छ्वासः । १४९
नलोऽप्येतदाकर्ण्य तदिदं संकटम् 'इतो व्याघ्र इतस्तटी, इतो दवा-
ग्निरितो दस्यवः, इतो दुष्टदन्दशूक इतोऽप्यन्धकूपः' इति न्यायात् । इतः
कर्णान्तैकृष्टशरासनो मर्मप्रहारी प्रहरति मकरध्वज इतश्चायमेतेषामल-
ङ्घनीयै आदेशः । तन्न जानीमः किमत्रोत्तरम् । एकत्रार्थेऽस्माकं भवतां
च प्रवृत्तिरिति प्रणयप्रार्थनाभङ्गकारिणी विहतविनया प्रतिकूलोक्तिः,
अनभिज्ञोऽस्मि दूतोक्तीनामिति शाठ्यम्, असमर्थोऽस्मि संदिग्धक्रिया-
कारितायामित्याज्ञालङ्घनम्, आज्ञालङ्घनं च सेतुबन्धनमिव स्खल-
यति श्रेयःस्रोतः, षण्ढमुखदर्शनमिव वर्धयत्यलक्ष्मीम्, रजस्वलाभिगम-
नमिव हरत्यायुः, इत्यनेकविधमवधार्य 'न नाम दुरधिगमाः केऽपि
पदार्थास्तत्रभवतामशेषजगदीश्वराणाम्, न च न जानीथ ममापि प्र-
सिद्धमध्यवसायम्, एवं स्थितेऽप्येष वः करोम्यादेशम्, आदिष्टपरा-
मर्शो न श्रेयानादेशकारिणः, किं तु बलीयान्परतो विधिः प्रमाणम्'
इत्यभिधाय भक्त्या भयेन च देवानां दौत्यादेशं समर्थितवान् ॥ क ॥
स्थित्वा च कंचित्क्षणमुचितालापलीलया कृत्वा च कांश्चिदन्योन्य-
प्रस्तुतप्रियव्यवहारान्, आपृच्छ्य, यथागतं गतेष्वथ तेषु देवेषु निष्-
षेधेश्वरश्चिरं चिन्तयांचकार ॥ ख ॥
तदिदम्, अनुच्छ्वासविरामं मरणम्, अमोहं मूर्छनम्, अरोगमङ्ग-
व्यथनम्, अशल्यप्रवेशमन्तःशूलम्, अदारिद्र्यो निद्राविघातः ॥ ग ॥
किमन्यत् ।
तस्यामाकर्णितानुरागायां यन्ममाद्य दीर्घदौर्जन्यदोह्रदिना दैवेना-
कस्मिकमौत्सुक्यानुरागव्यवसायं वन्ध्यमध्यवसितं कर्तुम् ॥ घ ॥
इदानीं किमत्र श्रेयो यस्माद्, अनुपयोगं गमनम्, श्लाघ्यं निव-
र्तनम्, अपार्थकमासनम्, असाधीयानध्यवसायः ॥ ङ ॥
इति चिन्ताकुले नले भयान्मूकीभूतेष्वासन्नवर्तिषु परिजनेषु प्रण-
यात्प्रावरणप्रान्तप्रच्छादितवदनभागं किमप्यासन्नमुपसृत्य शनैस्तत्का-
लयोग्यालापैरनुशीलयञ्शीलज्ञः श्रुतशीलो नलमावभाषे ॥ च ॥
नलोऽपीति ॥ न नाम दुरधिगमा इत्यत्र 'नाम' इत्यभ्युपगमे ॥ क ॥
१ 'दावाग्नि'. २ 'कर्णान्ताकृष्ट'. ३ 'अलङ्घनीयादेशः'; 'अलङ्घनीयो निदेशः'.
४ 'आज्ञालङ्घनमिति क्वचित्पुस्तके नास्ति'. ५ 'षण्ढदर्शनमिव'. ६ 'किंचित्'. ७ 'तेषु
निषधेश्वरश्चिरं चिन्त्यां'. ८ 'दौर्गत्य'. ९ 'प्रान्तच्छादित'.

१५० नलचम्पूः ।
'देव, जानामि देवस्य देहं दहति देहन इव दारु दारुणो दौत्यचि-
न्ताभारः । को नाम सामान्योऽपि स्वयमभिलषितेऽर्थे दूतत्वदासभा-
वमङ्गीकुर्यात् । विशेषतोऽनुरागिण्यङ्गनाजने । तथापि किं न जानाति
देवो, यथा याचको ब्राह्मण इव निर्वेदः कस्य संतोषाय, विषवैद्य इव
विषादः संदेहकारी शरीरस्य, भीमाभिमन्यु्निरुद्धं कुरुबलमिव मनो
महान्तं संतापमनुभवति ॥ क ॥
तदलमेन वातूलीभ्रमेणेव मीलयता चक्षुरुद्वेगेन ॥ ख ॥
किं देवेन न श्रुतम्, अमृतमथनावसरे सुरासुरकरपरिवर्त्यमानम-
न्दरमन्थाननिर्घोषबधिरितसमस्तरोदःकंदरादिवापि दूरोच्छलितदुग्ध-
तुषारसारतारकितनभसः, समुत्पन्नानेककौस्तुभादिवस्तुविस्तारादुद्ग-
च्छदप्सरोमुखमण्डलैः क्षणमिव विहितविकचनलिनखण्डशोभाद्,
अनेकाश्चर्यकुक्षेः क्षीरसागरादजनि जनितजगद्विस्मया स्मरजननी
हस्तस्थिततरुणारविन्दा देवी देदीप्यमानपुण्यलक्ष्मा लक्ष्मीः ॥ ग ॥
यस्याः सर्वाङ्गलावण्यमधु विकचलोचनचषकैरापीय पीयूषजुषो
म॑दैंनमदपरवशाः परस्परमेवेष्यन्तश्चक्रुश्चक्रपाणिना समं संगरम् ॥घ॥
अ॑थ सा सर्वानप्यन्तरान्तरापततस्तानुल्लङ्घ्य मन्दरगिरिशिखरशा-
तकुम्भनिकषोपलायितबाहोर्भग॑वतश्चिक्षेप क्षेपीयः कण्ठे वैकुण्ठस्य
स्वयंवरकुसुममा॑लाम् ॥ ङ ॥
एवं साऽपि कदाचिच्चम्पककलिकाकलापगौराङ्गीरागिणी त्वयि
वञ्चयिष्यति देवान् । वञ्चितो यतः पूर्वमात्ममुखमण्डलश्रिया शशी,
तिरस्कृतो मदनः सौभाग्येन् । संकृत्प्रवृत्तायाश्च किमवगुण्ठनेन ।
विधेरिव वामभुवामचिन्त्यानि चरितानि भवन्ति ॥ च ॥
देवेति ॥ निर्वेदः खेदो वेदरहितश्च । विषादोऽतीव शोचनम् यश्च विषं काल-
कूटमादयति । भीमो रौद्रोऽमितो मन्युर्दैन्यं तेन निरुद्धम् । कुरुबलं तु भीमेन
मध्यमपाण्डवेनाभिमन्युना चार्जुनसुतेन निरुद्धम् ॥ क ॥
तदलमिति ॥ उद्वेगो दुःखम् । वातूलीभ्रमस्तु ऊर्ध्वं वेगः ॥ ख ॥
अथ सेति ॥ अतिशयेन क्षिप्रं क्षेपीयः । 'स्थूलदूर-' इत्यादिना सिद्धम् ॥ ङ॥
एवं सापीति ॥ सकृत्प्रवृत्तायाः। स्तोकमपि नर्तितुमारब्धवत्याः किं नीरङ्कथाः
॥ च ॥
१ 'दहनदाहदारुणो'. २ 'दूत्य'. ३ 'तथापि इति कुत्रचिन्नास्ति'. ४ 'विकचनवन-
लिन'. ५ 'मदनपरवशाः'. ६ 'अथामिलपतः सा सर्वा'; 'अथ सा समभिलुपतः
सर्वां'. ७ 'भगवत इति नास्ति'. ८ 'सालिकाम्'. ९ 'असकृत्प्रवृत्तायाश्च'

पञ्चम उच्छ्वासः । १५१
किमु न स्मरति देवो दिविं विश्रुतमर्थसारं स्वर्लोकादवतीर्य पुरा
गीतं गन्धर्वगायनैर्गीतगोष्ठीस्थितस्याग्रे युगलमिदमार्ययोर्देवस्य ॥ क ॥
कचिदपि कार्यारम्भेऽकल्पः कल्याणभाजनं भवति ।
न तु पुनरधिकविषादान्मन्दीकृतपौरुषः पुरुषः ॥ ५५ ॥
अपहस्तितान्तरायानर्थानुररीकृतान्प्रसाधयतः ।
विधिरपि बिभेति तस्मान्निरतिशयं साहसं यस्य ॥ ५६ ॥
एवमनेकधा प्रस्तुतपुराणपुरुषाख्यानप्रपञ्चप्रक्रमेणातिक्रान्ते भूम्नि
दिवसे मङ्गलोद्गार इव वाञ्छितार्थसिद्धेः, तर्जनहुंकार इवान्तरायाणा-
म्, ओंकार इवोत्साहस्मृतेः, पुण्याहध्वनिरिव हृदयप्रसादप्रासादस्य,
पुनर्नवीकृतानुरागस्तम्भोत्तम्भनस्य तस्य नरपतेः शिश्राय श्रुतिं श्रुतशी-
लेन श्रावितमिममेवार्थं समर्थयन्निव मध्याह्नशङ्खध्वनिः ॥ ख ॥
राजा तु तमाकर्ण्य विसर्जितपरिजनस्तत्रैव पुलिनमध्ये मध्याह्नसम-
यसमुचितव्यापारमकरोत् ॥ ग ॥
अनन्तरमतिक्रान्तेषु केषु चिन्मुहूर्तेषु गगनमध्यतलाद्विलम्बमाने
मनाङ्मार्तण्डमण्डले चण्डवात्याहतशुष्कपत्रमिव दण्डप्रान्तप्रचलित-
कुलालचक्रमिव तेन पुरंदरादेशभ्रमेण भ्रान्तमात्मनो मनः क्वाप्येका-
न्तकमनीयनर्मदाप्रदेशदर्शनविनोदेन स्वस्तीकर्तुमिच्छन्निच्छानुकूलक-
तिपयाप्तपरिजनपरिवृतः श्रुतशीलस्कन्धावष्टम्भविहारो विहाय दूरमिव
शिविरसंनिवेशम्, इतस्ततस्तरुणतमालमण्डपमण्डलितमयूरहारिणा
चलचकोरचक्रवाकचक्रवालवलयितेन स्नानागततापसपदपङ्क्तिखर्वि-
तदूर्वाङ्कुरेणापसरतपयःपूरतरङ्गितवालुकेन पुलिनप्रान्तेन प्राचीं दिशम-
यासीत् ॥ घ ॥
तत्र च चटुलचञ्चरीककुलाकुलितविविधवीरुधां तलेषु विचरतोऽस्य ।
रसातलविनिर्गताः पन्नगाङ्गना इव नागमदहारिण्यस्तमालकन्दलीकोम-
लाङ्गयष्टयः श्रोणीभारालसगमनास्त्रिवलीतरङ्गिततनुमध्यलतिकाः, का-
क्वचिदिति ॥ कल्पोऽनिर्विण्णः । तु पुनरिति शब्दौ संभूयवाचकत्वात्पुनर-
र्थमेव द्योतयतः यथापिचेति समुच्चयः ॥ ५५ ॥
तत्र चेति ॥ चटुलालिकुलाकुलितवीरुन्मूलेषु विचरतो नृपतेर्दृष्टिपथमवतीर्णा
किरातकामिन्यश्चिरं चिक्कीडुरिति संबन्धः । कथंभूताः । नागमदेन गजमदजलेन हारि-
१ 'दिवि श्रुत'. २ 'गन्धर्वगीयमानं गीत'; 'गन्धर्वैः समापन्नैः'. ३ 'स्मृतिरिव'.
४ 'तस्येति नास्ति'. ५ 'प्रियाय'. ६ 'ध्वनिरुदियाय'. ७ 'तरङ्गितधवलवालुकेन'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१५२ नलचम्पूः ।
श्रितकण्ठकन्दलावलम्बितमातङ्गमौक्तिकलताः स्फुरन्नक्षत्रवलयाः कृ-
ष्णपक्षरात्रय इव कृतक्रीडाशरीरपरिग्रहाः, काश्चिदुभयश्रवणावसक्त-
दन्तिदन्तपत्रप्रभाधवलितमुखमण्डलाः सुरसरित्सलिलसंवलितकालि-
न्दीजलदेवता इव नर्मदेयामन्त्रिताः, काश्चित्परिधानीकृतरक्तपल्लवास्त-
डि़ल्लतालेखामेखलाश्चलदम्बुवाहपङ्क्तय इव विन्ध्यस्कन्धानुबन्धिन्यः,
काश्चिन्मातङ्गमदमण्डलमिलन्मधुकरकरालिताः सकलनीलोत्पलवन-
लक्ष्म्य इवान्यजलाशयेभ्यो महानदीमवतरन्त्यः, काश्चिल्लोहिताशोकै-
कुसुमस्तबककृतकर्णावतंसोत्तंसास्त्रिपुरपुरंध्रय इव हरशरानलज्वाला-
कुलितशिरसो धूमश्यामलाः सलिलमनुसरन्त्यः, काश्चिल्ललितलीलास्मृ-
गैरनुगम्यमानाः शरीरवत्योऽञ्जनशैलस्थलाधिदेवता इव तीर्थावगाह-
नानुरागिण्यः, काश्चिज्जराजर्जरशबरकञ्चुकिकरावलम्बलीलागामिन्यः
स्फुरदिन्द्रनीलशिलापुत्रिका इवेन्द्रजालिकैः संचार्यमाणाः कृष्णाञ्ज-
निकाकुसुमकान्तयः, काँश्चिच्चिपिटनासाः कुन्दकान्तदन्तपङ्क्तयो मायू-
रपिच्छगुच्छावनद्धकर्बुरकबरीकलापाश्चलद्वलयमुखरकरतलोत्तालता-
लिकारम्भरमणीयरसिकरासकक्रीडानिर्भराः काँदम्बमधुपानघूर्णित-
दृशो दृष्टिप्रथमवतेरुरपराह्णमज्जनागतास्तरुणकिरातकामिन्यः ॥ क ॥
ततश्च ताः सूक्ष्ममुक्ताफलधवलवालुकापुलिनपृष्ठे लब्धपरभागाः
स्वैरं स्वैरमनुच्चचरणचलनक्रमात्केंकारितनूपुररवाकृष्टकलहंसकुलमना-
कुलकलगीततरङ्गासन्नरञ्जितकुरङ्गमनङ्गभावभूयिष्ठमनुभूय तीरविहा-
रसुखम्, अनन्तरमक्रूरजलचरमवेगवहत्सलिलमुत्फुल्लविविधविकसि-
ण्यस्तेनालंकृतत्वात् । पन्नगाङ्गनासु नागानां वासुकिप्रभृतीनां मदं गर्वं हरन्ति मुञ्च-
न्ति कृतक्रीडाशरीरपरिग्रहा मूर्ता रात्रयः सनक्षत्रा इव। मुक्तानां नक्षत्राणि स्त्रीणां
रात्रय उपमानम् । दन्तपत्रप्रभाणां सुरसरित् स्त्रीणां कालिन्द्युपमानम् । रक्तपल्ल-
वानां तडिल्लता स्त्रीणामम्बुवाहपङ्क्तिरुपमा । लोहिताशोककुसुमानां हरशरासन-
ज्वाला स्त्रीणां च श्यामलेन धूम उपमा । कृष्णाञ्जनिका तापिच्छलता ॥ क ॥
ततश्चेति ॥ अम्बुजजातिभिर्जीविता जीवंजीवाः पक्षिविशेषा यत्र । 'शेषा-
१ 'संकलित'; 'संमिलित'. २ 'नर्मदामन्विताः'. ३ 'तडिल्लेखा'; 'तडिल्लववेखा'.
४ 'अशोककुलकुसुम'. ५ 'धूमश्यामलाः'. ६ 'काश्चित्किंचिच्चिपि'. ७ 'मयूर'.
८ 'कादम्बरी'. ९ 'कृष्टहंस'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १५३
ताम्बुजजातिजीवितजीवंजीवकमुक्तकूजितकुररमारसितसारसमुन्मद्-
हासिहंसावतंसमुरःप्रमाणाच्छोदकमतिरमणीयं ह्रदमवातरन् ॥ क ॥
अवतीर्य च ताः काश्चित्पन्नगपतिपुरंध्रय इवोद्गीर्णविषगण्डूषाः,
काश्चिद्राक्षसप्रमदा इव रक्तोत्पलाकृष्टिपिश्यसनिन्यः, काश्चिद्गोपालाङ्गना
इव गृहीतपुण्डरीकाक्षाः, काश्चित्कार्तिकेयशरपङ्क्तय इव विश्लेषितक्रौ-
ञ्चाः, काश्चित्कुरुसेना इव धार्तराष्ट्रशकुनिमार्गेणानुधावमानाः, काश्चि-
द्रात्रय इव विघटितचक्रवाकमिथुनाः, काश्चिच्चकोराङ्गना इव चञ्चूकृ-
तदीर्घकमलनालैः शशधरकरनिर्मलजलमास्वादयन्त्यः, काश्चित्करिण्य
इव सरसविसाग्राणि प्रसमानाः काश्चिज्जलयन्त्रपुत्रिका इव संपुटित-
मुखपाणिपल्लवयुगलाग्ररन्ध्रोन्मुक्तसूक्ष्मवारिधाराः, काश्चिद्भीरुनार्य इव
प्रियवारितरणाः, स्तनगण्डशैलशिखरास्फालनोल्लसत्तरङ्गान्तरतरत्तरु-
णतामरसरससुरभिसलिलमवगाहमानाश्चिरं चिक्रीडुः ॥ ख ॥
अवनिपतिरपि विस्मयविस्मृतनिमेषोन्मेषनयनस्ताश्चिरमवलोक्यं
चिन्तयांचकार ॥ ग ॥
'जातिर्यत्र न तत्र रूपरचना नेत्रोत्सवारम्भिणी
रूपश्रीरपि यत्र तत्र सुलभः श्लाघ्यो न जन्मोदयः ।
इत्येकस्थसमस्तसुन्दरगुणप्रद्वेषमभ्यस्यतो
धातस्तात वृथाश्रमस्य भवतः सृष्टिकमो दह्यताम् ॥ ५७ ॥
द्विभाषा' इति कप् । अम्बुजजातिरेव जीवितं येषामिति वा । अतिप्रियत्वात् ।
उरःप्रमाणं वक्षोदघ्नमुदकं यत्र । अगाधे हि पयसि न जलक्रीडा ॥ क ॥
अवतीर्येति ॥ विषं जलं, गरञ्च । पक्षोत्पलं रक्ताब्जं, रक्तेनोत्कृष्टं पलं
मांसं च। गृहीतपुण्डरीके अवलोकितसिताम्बुजे अक्षिणी यासाम्। चक्षुषो हि ग्रहण-
मवलोकनमेव । यथा श्रोत्रपानमाकर्णनम् । अथवा शैल्यान्नेत्रन्यस्ताब्जाँः । अन्यत्र
पुण्डरीकाक्षः कृष्णः क्रौञ्चः पक्षी गिरिश्च । धृतराष्ट्रो दुर्योधनस्य पिता, शकुनिर्मा-
तुलः। पक्षे धृतराष्ट्रो हंसः । यद्विश्वः—'धृतराष्ट्रः सुराज्ञि स्यात्पक्षिक्षत्रियभेद-
योः' । शकुनिः पक्षी । अचञ्चूनि चञ्चूनि कृतानि चञ्चूकृतानि । अन्यत्र चञ्च्वां
कृतानि धृतानि यानि दीर्घकमलनालानि तैः शशधरकरनिकरवन्निर्मलं जलम् ।
अन्यत्र किरणनिकर एव निर्मलजलम् । चकोर्यो हि चन्द्रकरान्पिवन्ति । प्रियं
वारिणो जलस्य तरणं यासाम् । अन्यत्र वारितो निषिद्धो रणो यकाभिः । ता
वारितरणाः, प्रियाणं वारितरणाः प्रियवारितरणाः ॥ ख ॥

  • यद्वा गृहीत आत्तः पुण्डरीकाणामक्षो बीजकोशो याभिस्ता इति बृहट्टीका ॥
    १ 'नागपति', २ 'गोपाङ्गना इव'. ३ 'धृतराष्ट्र'. ४ 'पुत्तिकाः'. ५ 'लोक्य चिरं'.
    CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१५४ नलचम्पूः ।
तथाहि ।
ग्रीवालम्बितपद्मनाललतिकाः कर्णावतंसीकृत-
प्रत्यग्रोन्मिषितासितोत्पलदलैः संदिग्धनेत्रद्वयाः ।
कस्यैता जलदेवता इव कुचप्राग्भारभुंग्रोर्मयः
स्नानासक्तपुलिन्दराजवनिताः कुर्वन्ति नोत्कं मनः ॥ ५८ ॥
अपि च ।
एतस्याः करिकुम्भसंनिभकुचप्राग्भारपृष्ठे लुठ-
द्दुग्धाभगजेन्द्रमौक्तिकसरश्रेणीमनोहारिणि ।
दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथं
को वान्य‍ोऽपि विलीयते न सरसः सीमन्तिनीसंगमे ॥५९॥
इयं तु
निजप्रियमुखभ्रान्त्या हर्षेणाचुम्बदम्बुजम् ।
दष्टाधरा तु भृङ्गेण सीत्कारमकरोन्मृदु ॥ ६० ॥
अनयापि
अविरतमिदमम्भः स्वेच्छयोच्छालयन्त्या
विकचकमलकान्तोत्तानहस्तद्वयेन ।
परिकलित इवार्घः कामबाणातिथिभ्यः
सलिलमिव वितीर्णं बाल्यलीलासुखाय ॥ ६१ ॥
अस्याश्च
कर्णमूलविषये मृदु गुञ्जन्पाणिपल्लवहतोऽपि हठेन ।
एष षट्पदयुवा हरिणाक्ष्याश्चुम्बति प्रिय इवास्यसरोजम् ॥६२॥
इतोऽप्येषा
भ्रमकरं मकरं मकरन्दिनीं
कमलिनीमलिनीमलिनीकृताम् ।
तरलयन्तमवेक्ष्य महाभया-
दुदतरत्सरितस्त्वरितैः पदैः ॥ ६३ ॥

एतस्या इति ॥ मौक्तिकसरो मुक्तादाम ॥ ५९ ॥
भ्रमकरमिति ॥ मकरन्दोऽस्त्यस्यां मकरन्दिनीम् । तथा अलिनीभिर्भृङ्गी-
भिर्मलिनीकृतां कमलिनीं तरलयन्तं क्षिपन्तं भ्रमकरमावर्तकरं मकरं यादोवि-

१ 'भग्नो' । २ 'बाल' ।

पञ्चम उच्छ्वासः । १५५
एताश्च
मन्दायते दिनमिदं मदनोऽपि सज्ज-
स्तत्किं न गच्छत गृहानिति पद्मिनीभिः ।
मीलत्सरोजगतभृङ्गरुतैरिवोक्ताः
स्नात्वा शनैरनुसरन्ति तटं तरुण्यः' ॥ ६४ ॥
एवमनेकविधविलासासक्तशबरसुन्दरीदर्शनाह्लादपुलकिते विवि-
धवितर्ककारिणि पङ्कनिमग्नरजत्करेणुकायमाननिःस्पन्ददृशि तत्काल-
मुत्पन्नया मनाङ्जन्मथव्यथया धीरतया च स्पृहया च विचिकित्स-
या च जिघृक्षया च जिहासया च समकालमाकुलितहृदये संकीर्ण-
भावभाजि राजनि, राजीववनविराजिते तस्मिन्नर्मदाह्रदे सलिलक्रीडा-
सुखमतिचिरमनुभूय तीरभुवि सेव्यसितसैकतस्थलीमलं कुर्वाणासु च
तासु शवरराजसुन्दरीषु श्रुतशीलश्चिन्तितवान् ॥ क ॥
'उन्मादि यौवनमिदं शवराङ्गनानां
देवोऽप्ययं नववयाः कमनीयकान्तिः ।
रेवातटं चलचकोरमयूरहारि
किं स्यान्न वेद्मि जयिनी च मनोभवाज्ञा ॥ ६५ ॥
तथाहि ।
विकलयति कलाकुशलं, हसति शुचिं, पण्डितं विडम्बयति ।
अधरयति धीरपुरुषं, क्षणेन मकरध्वजो देवः ॥ ६६ ॥
अपि च ।
मध्ये त्रिवलीत्रिपथे पीवरकुचचत्वरे च चपलदृशाम् ।
छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ॥ ६७ ॥
तद्वस्तु प्रस्तुतसानुनयेनैव प्रभूणां मतयो निवर्त्यन्ते निषिद्धनिषे-
वणात्, न प्रतिकूलतया' इत्यवधारयन्नवनिपेन्तिमवादीत् ॥ ख ॥
शेषं विलोक्य यदुत्पन्नं महाभयं तस्मात्त्वरितैरुत्तालैः पादक्रमैरसौ शबरसुन्दरी
सरित उत्तीर्णा ॥ ६३ ॥
विकलयतीति ॥ अधरयति विधुरयतीत्यर्थः ॥ ६६ ॥
तदस्त्विति ॥ निषिद्धस्य निषेवणं सेवनमाग्रहस्तस्मात्सकाशात् प्रभूणां
मतयः प्रकृतरसानुमत्तैव व्यावयंन्ते, न प्रतिकूलतया हठात् निषिद्धस्यानभि-
जातसंगमादेराग्रहं कुर्वाणः प्रभुः सहायसंपदानुजीविना निवार्यः । परं तदभि-
१ 'मत्तिभुवि', २ 'मध्यत्रिव', ३ 'अवन्तिपाल'.

१५६ नलचम्पूः ।
'देव, रमणीयः खल्वयं प्रदेशः ॥ क ॥
तथाह्यत्र
आह्लादयन्ति मृदवो मृदितारविन्द-
निष्पन्दमन्दमकरन्दकणान्किरन्तः ।
एते किरातवनितास्तनशैल¹गण्ड-
संघट्टजर्जररुचः सरितः समीराः ॥ ६८ ॥
एताश्च
उपनदि पुलिने पुलिन्दवध्वः
स्तनपरिणाहविनिर्जितेभकुम्भाः ।
शिथिलितसलिलार्द्रकेशबन्धाः
किमपि मनोभववैभवं वहन्ति ॥ ६९ ॥
इतश्चावलोकयतु देवः ।
सरसिजमकरन्दामोदमत्तालिगीत-
श्रवणसुखनिमीलच्चक्षुषः किंचिदेते ।
अपि दिवसमशेषं निश्चलाङ्गाः कुरङ्गाः
पुलिनभुवि विहाराहारवन्ध्या वसन्ति ॥ ७० ॥
इतोऽपि
पद्मान्यातपवारणानि नलिनीपत्राणि पर्यङ्किका
दोलान्दोलनदोहदोऽपि³ च चलद्वीचीचयैः पूर्यते ।
आहारो बिसपल्लवं⁴, पुलिनभूर्लीलाविहारास्पदं
रेवा²वारिणि राजहंसशिशवस्तिष्ठन्ति धन्याः सुखम् ॥७१॥
इहापि
चिरविरचितचाटुश्चन्द्ररेखायमाणः
प्रथमरसबिसाग्रग्रासलीलार्पणेन ।
इह रमयति हंसीं राजहंसो रिरंसुः
पुलकयति च चञ्चूकोटिकण्डूयनेन ॥ ७२ ॥
मतं प्राक् पुरस्कृत्य दोषं च दर्शयित्वा । सहसा निवार्यमाणो हि पराभवमिव
मन्येत ॥ ख ॥
सरसिजेति ॥ अपिर्भिन्नक्रमे ततोऽशेषमपि दिवसमित्यर्थः ॥ ७० ॥
पद्मानीति ॥ अत्रातपत्रप्रभृतयो राजधर्मा राजहंसशिशुषूद्भावनीयाः ॥७१॥
१ 'स्तनगण्डशैल'. २ 'रवाः'; 'ऱ्याः'; 'जवाः'. ३ 'दोहदोऽपि विचल'. ४ 'पल्लवाः'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १५७
अपि च ।
इह चरति चकोरः कोरकं पङ्कजाना-
मिह चलदलिचक्राच्चक्रवाको बिभेति ।
इह रमयति जीवंजीवको जीवितेशा-
मिह वहति विकारं हारि हारीतकोऽपि ॥ ७३ ॥
एवमसौ निषधेश्वरः श्रुतशीलेन प्रज्ञापूर्वमपररमणीयप्रदेशान्तरद-
र्शनव्याजेनान्तरितशवरसुन्दरीदिदृक्षाग्रहो गृहान्प्रति प्रत्यावृत्तः ॥क॥
चिन्तितवांश्च
'कथं नु सा दमयन्ती पुरंदरप्रमुखेषु लोकपालेष्वर्थिषु मया मनु-
ष्यजन्मना लब्धव्येति । निवारयिष्यन्ति च तां खलु दिव्यसंबन्धा-
र्थिनो बान्धवाः । तत्किमिह शरणम्' इति विमुक्तदीर्घनिःसहनिःश्वा-
समसकृच्चिन्तयति राजनि 'राजन्, रामाजनः पद्म इव वारितः सुत-
रां प्रवर्तते । नालमस्य दीर्घमनुरक्तस्य जायतेऽपरागो नाप्यलीकाभिनि-
वेशोऽस्य हीयते । किंचान्यदन्यपरिग्रहवर्तिनीनामपि स्त्रीणामन्यत्रापि
रागाग्रहो भवति । यतः पश्य वरुणप्रतिग्रहेऽपि प्रतीचियं मयि रागि-
णी भविष्यति' इत्येवमिममाश्वासयन्निव भगवान्भानुरुत्तुङ्गतशिख-
इह चरतीति ॥ प्रतिष्टमानभृङ्गवृन्दाच्चक्रवाको बिभेतीति तपस्विनीत्रान्वेति
शेषः । जीवंजीवकः पक्षी जीवितेशां प्रियां रमयतीति संबन्धः ॥ ७३ ॥
कथं नु सेति ॥ इन्द्रादिवरेषु सत्सु मयि विषये कीदृगनुरागः, बन्धवो-
ऽप्येनां दिव्यसंबन्धार्थित्वात्तेष्वेव प्रोत्साहयिष्यन्ति, इति चिन्तयति राज्ञि शनैः क्रमे-
णाम्बरादवतीर्य भगवान्भानुः . पश्चिमामगात् । किं कुर्वन् । इमं नृपमित्यमुना
प्रकारेणाश्वासयन्निव । तमेव प्रकारमाह-अहो राजंस्त्वया चेतसि नैतच्चिन्तनीयम्
यद्दिव्यसंबन्धार्थिनो बन्धव एतां निवारयिष्यन्तीति तदेषास्मत्तो विरहतीति । यतो
रामाजनो वारितो निषिद्धोऽतीव प्रवर्तते । तथाऽस्य स्त्रीजनस्य दीर्घमनुरक्तस्य
बहुकालं सानुरागस्य सतोऽलमप्यर्थे न रागापायः स्यात् । तथास्यालीकोऽप्यभिनि-
वेशो न हीयते । किं पुनर्यादृक्तव्यभिनिवेशः । यथा पद्मोऽब्जं वारितो जला-
त्प्रवर्तते । तथास्य रक्तस्य सतो नालं काण्डं दीर्घमनु सह परागो मकरन्दः स्यात् ।
तथाली भृङ्गी कं जलं तयोरभिनिवेशः प्रवेशः सोऽप्यस्य न हीयते न हीनः स्यात् ।
किं चान्यदुच्यते । स्वीकृतानामपि स्त्रीणां पुरुषान्तरे रागानुबन्धः । यस्मात्संप्र-
१ 'कथं सा दम'. २ 'स्यात्'. ३ 'वरुणपरिग्रहोऽपि'. ४ 'मय्यनुरागिणी'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१५८ नलचम्पूः ।
राणि करैः पतनभयादिवावलम्बमानः शनैर्गगनतलादवतीर्य प्रतीचीं
दिशमयासीत् ॥ क ॥
अम्बरान्तःप्रसारितकरे रागिणि रक्तया परियुक्ते तु पश्चिमककु-
भाऽम्भोजिनीजीवितेश्वरे ॥ ख ॥
पूर्वाऽहं विहितोदयाहमसकृत्तन्मां विहायाधुना
यस्यामस्तमुपैति तां कथमयं रागी जघन्यामगात् ।
इत्येवं श्लथितांशुके दिनपतौ याते दिशं पश्चिमा-
मीर्ष्यारोषनिषादिनीव तमसा प्राची ककुल्लक्ष्यते ॥ ७४ ॥
विश्लेषाकुलचक्रवाकमिथुनैरुत्पीडमाक्रन्दिते
कारुण्यादिव मीलितासु नलिनीष्वस्तं च मित्रे गते ।
शोकेनेव दिगङ्गनाभिरभितः श्यामायमानैर्मुखै-
र्निःश्वासानलधूमवर्तय इवोद्गीर्णास्तमोराजयः ॥ ७५ ॥
तथाविधे च वेलाव्यतिकरे राज्ञः संध्यावसरमावेदयितुमस्यासन्न-
विहारी हरिलीलाकिंनरमिथुनमिदमगायत्—
‘रक्तेनाक्तं विनिहितमधोवक्त्रमेतत्कपालं
तारामुद्राः किमु कलयता कालकापालिकेन ।
संध्यावध्वाः किमु विलुलिता कौङ्कुमी शुक्तिरेवं
शङ्कां कुर्वञ्जयति जलधावर्धममार्कबिम्बम्’ ॥ ७६ ॥
त्यपि पश्य त्वं वरुणस्वीकृतापि पश्चिमाशा ममापि विषये रागिणी *भविष्यतीति ।
पद्मशब्द उभयलिङ्गः ॥ क ॥
अम्बरान्तरिति ॥ नभोन्तःप्रसारितांशौ रक्ततान्विते रक्तया पश्चिमया
दिशा युक्ते सत्यम्भोजिनीजीवितेश्वरे रवौ प्राच्या चिन्तितम् ॥ ख ॥
तदाह—पूर्वेति ॥ आद्याहम् । तथासकृद्विहितोदयाहं तस्माद्यस्यामस्तमेति
जघन्या च निकृष्टा तामिमां रागी आरक्तः सन् रविर्र्मां विहाय कथमगात् । पश्चि-
मां दिशं गते शिथिलांशावंशुमति विषये य ईर्ष्यारोषोऽसूयाकोपस्तस्माद्विषादिनी
च सती पूर्वा दिक् तमसान्धकारेण लक्ष्यते । अन्यामपि प्रथमां कृतोदयां विहाय
अस्तंकारिणीं निकृष्टां च यदा रागी विलासी याति, तदा तस्मिञ्शिथिलितवाससि
पूर्वा स्त्रीर्ष्याविषादिनी तमसा तमोभावेन प्राप्यते ॥ ७४ ॥
विश्लेषेति ॥ उत्कृष्टा पीडा यत्रेत्युत्पीडमित्याक्रन्दक्रियाविशेषणम् ॥ ७५ ॥
रक्तेनेति ॥ अधस्तादुक्तं यस्य तदधोवक्त्रमधोमुखम् । तथा रक्तेन रुधिरेणाक्तं
लिप्तम् । तत्तथाभूतं कपालं काल एव कापालिकस्तेन तारा नक्षत्राण्येव मुद्रा रुच-
१ 'तां मां'. २ 'लभ्यते'. ३ 'रुत्पक्ष'. ४ 'कुत्रचिन्नास्ति'.

पञ्चम उच्छ्वासः । १५९
अथ क्रमेण गगनमन्दाकिनीतीरतापसैर्विकीर्यमाणेषु¹ संध्यार्घ्याञ्ज-
लिजलविन्दुबुद्बुदेष्विव किंचिदुन्मीलत्सु विरलतरतारास्तवकेषु², वासर-
विरामवादितवाद्येष्वमरसदनेषु, दह्यमानबहलधूपधूममञ्जरीष्विव वि-
यति विहरन्तीषु तनुतिमिरवल्लरीषु, स्वप॑त्पतत्रिकुलकोलाहलेन³ वासार्थि-
श्रान्तागताध्वगस्वागतालापमिव कुर्वाणासु वनराजिषु, अन्यत्र परिभ्र-
मणपरिहारार्थमिव पद्मिनीनां कोशपानमाचरत्सु चञ्चलचञ्चरीकेषु,
रत्युत्सवोत्साहावेशमहामन्त्राक्षरेष्विव श्रूयमाणेषु महोसरित्कूलकुला-⁴
यनिलीनजलकुक्कुटकुहरितेषु, रामायणव्यतिकरेष्विव मन्दोदरीप्रहस्त-
प्रबोधितोत्सिक्तदशाननेषु संध्याप्रदीपेषु जाते जरत्कुम्भकारकुक्कुट-
कुटुम्ब॑पक्षपिच्छविच्छा ये⁵ मनाक्तमोविद्धे संध्यारागे राजा विषाद्-
विस्मृतसंध्याह्निकः परिजनानुबन्धात्संध्यां ववन्दे ॥ क ॥
ततश्च क्रमेण
रजनिमवनिनाथः सांध्यकर्मावसाने
हरचरणसरोजद्वन्द्वसेवां विधाय ।
मृदु कलितविपञ्चीपञ्चमप्रायगीत-
श्रवणसुखविनोदैस्तां स तस्मिन्ननैषीत् ॥ ७७ ॥
इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरो-
जाङ्काया पञ्चम उच्छ्वासः समाप्तः ॥
काष्ठ्यानि हस्तपादादीनामस्थ्याभरणानि कलयता युञ्जानेन किमु न्यस्तम् । किम्बि-
ति वितर्के । किंवा संध्यैव या वधूस्तस्याः संबन्धिनी कौङ्कुमी शुक्तिर्विपरीतमधो-
मुखी लुठिता । एवमित्थं शङ्कामुत्पादयत्समुद्रेऽर्धममार्कबिम्बं जयत्यधुना ॥ ७६॥
अथेति । कोशः कणिका शपथविशेषश्च । वयमन्यत्र न यास्याम इत्यर्थे पद्मि-
नीनां समीपे कोशयानं कुर्वत्सु भृङ्गविलासिषु । क्षामोदरीप्रकृष्टपाणिज्वलिततैल-
सिक्तवर्तिमुखेषु दीपेषु । रामायणसंपर्केषु तु मन्दोदरीनाम्न्या पत्न्या प्रहस्तेन
सेनान्या प्रकर्षेण बोधित उत्सिक्तः उद्रिक्तः सन् दशाननो रावणो येषु तथा-
भूतेषु । कुम्भकारः कुक्कुटः पक्षिविशेषः ॥ क ॥
इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः ।
शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥
इति चण्डपालविरचिते दमयन्तीकथाविवरणे पञ्चम
उच्छ्वासः समाप्तः ॥
१ 'विकीर्णेषु'. २ 'विचलं'. ३ 'स्वपतत्पतत्रि'; 'आपतत्पतत्रि'. ४ 'महेति नास्ति'.
५ 'कुटुम्बपिच्छच्छाये'.

१६० नलचम्पूः ।
षष्ठ उच्छ्वासः ।
अथ द्विजजननिकायकीर्णसंध्याञ्जलिजलैरिव क्षाल्यमाने मनाग्वि-
मलतां व्रजति तिमिरमलिनेऽम्बरे, मालाकारेणेव प्रभातप्रमोद्भेदेनाव-
चीयमानेषु गगनपुष्पवाटिकाकुसुमेष्विव नक्षत्रेषु, निद्रापहारहुङ्कार
इवोत्थिते प्रभातभेरीध्वनौ, नरपतेः प्रबोधनार्थमदूरे वैतालिकः पपाठ
॥ क ॥
उदयगिरिगतायां प्राक्प्रभापाण्डुताया-
मनुसरति निशीथे शृङ्गमस्ताचलस्य ।
जयति किमपि तेजः सांप्रतं व्योममध्ये
सलिलमिव विभिन्नं जाह्नवं यामुनं च ॥ १ ॥
अपिच ।
यात्यस्ताचलमन्धकारपटले जातेऽरुणस्योदये
तापिञ्छच्छदपद्मरागमहसोर्मध्यं ककुब्भागयोः ।
अथ द्विजेति ॥ अथ निशातिवाहनानन्तरम् । अम्बरं व्योम वस्त्रं च । व्यो-
म्नः स्वभावस्वच्छस्यापि मालिन्यक्षालने भाक्ते । वस्त्रपक्षे तिमिरवन्मलिनम् ॥ क ॥
उदयेति ॥ उदयाद्रिगतप्रथमप्रभापाण्डिम्नि निशीथे चान्धकारेऽस्ताचलशृङ्गं
गन्तुं प्रवृत्ते किमपि सर्वोत्कृष्टं तेजो जयति । तत्र कविरुत्प्रेक्षते—सांप्रतमिदानीं
नभोमध्ये जाह्नवं गाङ्गं, यामुनं च कालिन्दीयं, सलिलं विभिन्नं संगतमित्यर्थः ।
व्योम्नि जाह्नव्येवासीत् । यमुनायाः संभेदः सांप्रतमेव । अत एवास्मिन्वृत्ते ‘यमु-
नात्रिविक्रमः’ इति नाम कविरवापत् । तथाच—‘प्राच्याद्विष्णुपदीहेतोरपूर्वोऽयं
त्रिविक्रमः । निर्ममे विमलं व्योम्नि यत्पदं यमुनामति’ । प्रभया पाण्डुता प्रभाकृ-
त उद्योतः प्रकाश इति यावत् । नतु प्रभायाः पाण्डुतेति समासः । उदये प्रभाया
आरक्तत्वात् । प्रकाशस्तु इन्द्रनीलादीनामपि पाण्डुरेव । जाह्नवी देवताधिष्ठात्री
यस्येति देवतार्थेऽण् । अन्यथा शैषिकश्छः स्यात् ॥ १ ॥
यातीति ॥ अस्तगिरिं गच्छति तमःसमूहे पश्चिमायाः कृष्णायाः, संप्रत्तारुणो-
दयायाः पूर्वस्याश्च लोहिताया दिशोर्मध्ये पाण्डु पिञ्जरं श्यामं वा किमपि दुर्लक्षं
मनाक् स्तोकोदयं तेजोऽर्थात्प्रकाशात्मकं वो युष्मान्पातु । प्रकाशारुणोदयतमःशे-
षसमुदायरूपत्वात् पाण्डु पिञ्जरं श्यामं चेत्युक्तम् । तदित्यनेन क्षिप्तं यच्छब्दवा-
च्यमुपमानमाह—अन्तरित्यादि । दिग्भागयोर्विष्णुविरञ्चौ, प्रकाशात्मनश्च तेज-
सो लिङ्गोद्भव उपमानम् । अथवा सत्त्वं पाण्डु तदेव विष्णुः, रजः पिञ्जरं तदेक
१ 'भेरीशङ्खध्वनौ'. २ 'निशान्थे', ३ 'निमग्नम्'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

षष्ठ उच्छ्वासः । १६१
अन्तर्विष्णुविरञ्चयोरिव मनाग्लिङ्गोद्भवभ्रान्तिकृ-
त्तेजः पाण्डुरपिञ्जरं च किमपि श्यामं च तद्वोऽवतात् ॥२॥
अनन्तरमुत्तिष्ठतोत्तिष्ठतानयत गजवाजिंवेगसरीः, संयोजयत शक-
टानि, वेष्टयत पटकुटीः, मुकुलयत मण्डपिकाः, संवृणुत काण्डपटान्,
उन्मूलयत कीलकान्, उद्वहत वेगाद्वहनीयभाण्डम्, भारयत करभ-
कलभान्, उत्क्षिपत क्षीणोक्षकान्, उत्तरत सरितम्, अपसरत पुरतः,
कुरुत संचारसहं मार्गम्, इत्यनेकविधप्रयाणाकुललोककोलाहले समु-
च्छलति, नदत्सु प्रस्थानवादित्रेषु, समुत्थाय नरपतिरावश्यकशौचाव-
साने नर्मदाम्भोभिषेकपूततनुरॆनुवन्द्य सांध्यविधिम्, अधिकृत्य भग-
वन्तमुदयगिरिशिरःशिखरभाजं भास्करम्, इमं श्लोकमपठत् ॥ क ॥
'जयत्यम्भोजिनीबन्धुर्बन्धूकारुणरश्मिकः ।
वैद्रुमो वासरारम्भकुम्भः पल्लववानिव' ॥ ३ ॥
अभ्यर्च्य च पञ्चोपचारैः सुरासुरगुरुं गौरीपतिं तत्प्रियस्य भगवतो
नारायणस्यापि वाञ्छितार्थसिद्धये स्तुतिमकरोत् ॥ ख ॥
'जयत्युदधिनिर्गतस्मरविलोscreen...
'जयत्युदधिनिर्गतस्मरविलोscreenललक्ष्मीर्लस-
द्विलासरसमन्थरस्फुटकटाक्षलक्षीकृतः ।
अमन्दरयमन्दरभ्रमणघृष्टहेमाङ्गदः
सुरारिवधनाटकप्रथमसूत्रधारो हरिः ॥ ४ ॥
स्रष्टा, तमः श्यामं तदेव च हरः, एतत्रयीमयश्च रविरित्यागमिकसमयः । तदु-
क्तम्—'सत्वं शुभ्रं स हरिर्लोहितपीतं रजः स जगत्कर्ता । कृष्णं तु तमः स भवो
भानुश्चैतत्रयीमूर्तिः' । अभिधानकारोऽप्याह—'द्वादशात्मा त्रयीतनुः' । एतेन
पाण्डु तेज इत्युक्ते सत्त्वस्य, पिञ्जरमित्युक्ते रजसः, श्याममित्युक्ते तमः प्रतीति-
रीति । ततश्च तमोन्विताया अपाच्या अरुणाान्वितायाश्च प्राच्या मध्ये मनागीप-
ल्लक्ष्यं किमप्यद्भुतवैभवं तदुत्कृष्टं पाण्डु पिञ्जरं श्यामं च तेजोऽर्थात् सत्वरजस्त-
मस्त्रयीमयं त्रयीतनुलक्षणं वो युष्मानवतु । अमुमेवार्थं सत्वरजस्तमसां संज्ञान्तरेण
विष्णुविरञ्चिलिङ्गोद्भव लक्षणेन द्रढयन्नाह—अन्तरित्यादि । 'पुरा स्वमाहात्म्यार्थं
विवदमानयोर्द्रुहिणनारायणयोः शिवेन स्वस्य लिङ्गोद्भवस्योर्ध्वाधोमानविज्ञानं मह-
त्वहेतुः पण उक्तः' इत्यागमः ॥ २ ॥
अनन्तरमिति ॥ वेगसरी बेसरी । काण्डपटो गुणलयनी ॥ क ॥
जयत्युदेति ॥ सुरारिवधनाटकस्य प्रथमे प्रस्तावनायां सूत्रधारः ॥ ४ ॥
१ 'वेसरी'. २ 'मात्रं'. ३ 'कर्माव'. ४ 'अनुबन्ध्य'. ५ 'तार्थी सिद्धये'. ६ 'बलद्वि'.
७ 'अथमिश्रष्ट'.

१६२ नलचम्पूः ।
जयत्यमलकौस्तुभद्युतिविराजितोरःस्थलः
सहेलहतदानवो नवतमालनीलद्युतिः
विनम्रसुरमस्तकच्युतविकासिपुष्पावली-
विकीर्णमधुसीकरस्नपितपादपीठो हरिः ॥ ५ ॥
जयत्युदरनिःसरद्वरसरोजपीठीपठ-
च्चतुर्मुखमुखावलीविहितरम्यसामस्तुतिः ।
अलब्धमहिमावधिर्मधुवधूविलासान्तकृ-
ज्जगत्त्रितयसंभवो भवभयापहारी हरिः ॥ ६ ॥
जयत्यसुरसुन्दरीनयनवारिसंवर्धित-
प्रतापतरुरुल्लसत्तरुणकेकिण्कण्ठच्छविः ।
दलत्कनककेतकीकुसुमपत्रपीताम्बरः
सुराधिपनमस्कृतः सकललोकनाथो हरिः ॥ ७ ॥
जयत्यखिललोकजिन्नरककालकेतूद्रमो
मदान्धदशकन्धरद्विरददुष्टपञ्चाननः ।
हिरण्यकशिपुप्रियामुखसरोजचन्द्रोदयः
सुरेन्द्ररिपुसिंहिकासुतशिरःकुठारो हरिः ॥ ८ ॥
जयत्यमरसारथिर्मदनतप्तलक्ष्मीलस-
त्पयोधरयुगस्थलीसरसचन्दनस्थासकः ।
अचिन्त्यगुणविस्तरः सकलके²शिकं³साङ्गना-
कपोलफलकोल्लसत्तिलकभङ्गहारी हरिः ॥ ९ ॥
जयत्यसमसाहसः सकललोकशोकान्तकृ-
त्सहस्रकरभासुरस्फुरितचारुचक्रायुधः ।
विहङ्गपतिवाहनः कलुषकन्दनिर्मूलनः
समस्तभुवनावलीभवनशिल्पधोरी हरिः ॥ १० ॥
जयत्यमलभावनावनतलोककल्पद्रुमः
पुरंदरपुरःसरत्रिदशवृन्दचूडामणिः ।
अरातिकुलकन्दलीवनविनाशदावानलः
समस्तमुनिमानसप्रवरराजहंसो हरिः ॥ ११ ॥
जयतीति ॥ नरको भौमासुरः ॥ ८ ॥
जयतीति ॥ अमराणां सारथिर्नेता अग्रणीरिति यावत् ॥ ९ ॥
१ 'विधिः'. २ 'केलि'. ३ 'सिद्ध'. ४ 'कारो'. ५ 'चिन्ता'.

षष्ठ उच्छ्वासः। १६३
एवमभिवन्द्य देवं देवम्, समारुह्य विजयिवारणेन्द्रस्कन्धम्, अग्रतः
प्रधावितानेककरितुरग परिजनः, पुरैः परोधसा निर्वर्तिते महानदीयागे
युगसहस्रपरिवर्तवृत्तान्तसाक्षिणीम्, अनवरततपस्यद्ब्रह्मर्षिप्रतिष्ठितशि-
वलिङ्गरुद्धरोधसम्, अनेकसुरैसुन्दरीसेविततीरसंकेतलतामण्डपाम्,
अनवरतमज्जद्दनगजमदामोदसुरभिततरङ्गाम्, अपरगङ्गाम्, अपरसा-
गरराजमहिषीम्, अपरमार्कण्डेयतपःसिद्धिसखीम्, समुत्तीर्य भगवतीं
मेकलकन्याम्, उत्फुल्लपल्लविताङ्कोल्लसल्लकीसरलसालसर्जार्जुननिम्बक-
दम्बजम्बूस्तम्बोदुम्बरखदिरकरञ्जा'जनाशोकंसौभाञ्जनकप्रायैस्तरु-
भिराकीर्णम्, अभिमतं मतङ्गानाम्, अनुभूतसारं सारङ्गैः, शिशिरतरं
तरङ्गानि लैः, स्वर्गवनसमं समञ्जरीकैर्लताजालकैरुलङ्घय दक्षिणं नर्म-
दातीरैपुण्यारण्यम्, अग्रतो, गगनवीथिमिव सिंहराशिरानितामुत्पतङ्गा-
मुत्थितवृश्चिकामाविर्भूतसार्द्ररोहिणीमूलां च, छन्दोजातिमिव शार्दूल-
विक्रीडितमनोहरां हारिहरिणीमन्दाक्रान्तामनवरतवसन्ततिलकोद्भासि-
तामतिविचित्रचम्पकमालां च, सीतामिव बहुकोटरावणवृतामुत्पन्नकु-
शलवां च, लङ्कामिव संचरद्विगुणपञ्चाननविभीषणां चारुपुष्पकामका-
एवमिति ॥ समुत्तीर्य भगवतीं मेकलकन्याम् । उत्फुल्लेत्यादौ लकारानुप्रासाद्धेतोः
केचित् 'अङ्कोल' इति पठन्ति, तच्च प्राकृते । संस्कृते लङ्कोठ इति । तथा उल्लङ्घय-
दक्षिणभागस्थितं मतङ्गानां गजानामभिमतं नर्मदातीरं पुण्यारण्यम्, अग्रतो
विविधविन्ध्याटवीमवगाहमान इति संबन्धः । कथंभूतां विन्ध्याटवीम् । सिंहराशि-
र्मृगेन्द्रवृन्दं ज्योतिषोक्तः पञ्चमो राशिश्च । तेन राजिताम् । तथा पतङ्गः शलभः
सूर्यश्च । वृश्चिकोऽली अष्टमराशिश्च । पुनः किंभूताम् । आविर्भूता सह .आद्रेण
शृङ्गवेरेण, रोहिणी ओषधिविशेषो, मूलो मूलकश्च यस्याम् । पक्षे आर्द्रा-रोहिणी
मूलानि ताराः । शार्दूलविक्रीडितेन सिंहविलसितेन मनोहरा । तथा हारिणीमिश्रा-
रुभिर्हरिणीभिर्मन्दमाक्रान्ताम् । सर्वदा वसन्तैस्तिलकैश्च तरुविशेषैर्भूषिताम् । तथा
अतिविचित्रा चम्पकानां माला श्रेणी यस्याम् । पक्षे शार्दूलविक्रीडितं हरिणी मन्दा-
क्रान्ता वसन्ततिलका चम्पकमाला च छन्दांसि । तथा बहुभिः कोटरावणैर्वृतां
छन्नाम् । कोटराणां वनमिति कृत्वा 'वनगियोः संज्ञायाम् -' इति सूत्रेण पूर्वपदस्य
दीर्घः । 'वनंपुरगा-' इति सूत्रेण णत्वम् । कुशो दर्भः । लवो लेशः । सीतां तु
बहुकोटेन प्राज्यकौटिल्येन रावणेन रक्षसा प्रार्थिताम् । तथा उत्पन्नौ कुशलवौ
खसुतौ यस्याः । तथा संचरद्भिर्द्विगुणैर्विंरज्जुभिः पञ्चाननैः सिंहैर्विशेषेण भीषणाम् ।
१ 'नन्द्य'. २ 'देवता:'. ३ 'पुरःसरपुरोध'. ४ 'सुरसिद्ध'. ५ 'सालेति नास्ति'.
६ 'अशोकसौभाञ्जनकेति नास्ति'. ७ 'तीरं पुण्या'. ८ 'मत्तमयूराक्रान्ताम्'. ९ 'राव-
णैवृताम्', 'रावणान्विताम्'