नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 95, कुल 258 में से
संदर्भ में पढ़ेंतृतीय उच्छ्वासः । ७७
तदलम्नेनालापालसप्रपञ्चेन । गतो भूयिष्ठो दिवसः । समा-
सन्नोऽस्माकमाह्निकसमयः । सीदत्येषा ब्रह्मपरिषद् । गगनमण्डल-
मध्यमारोहति भगवानशेषकल्याणचिन्तामणस्तरणिः । अरविन्दारु-
णवदने न नक्तं समयमनुपालयन्त्यमी मुनयः । अनुमन्यस्व । यामो
वयम्' ॥ क ॥
इत्यभिहिता सा प्रियंगुमञ्जरी 'महर्षे, मर्षणीयोऽयमेकस्यक्तकु-
लवधूर्धर्मो नर्मापराधः । स्वीक्रियन्तामेतानि विविधाम्युल्लसन्मयूख-
मञ्जरीरचितेन्द्रचापचक्राण्याभरणानि । गृह्यतामिदमिन्दुद्युतिधवल-
मनलशौचं चीनांशुकपट्टपरिधानयुगलमियं च कुसुममालिका' इत्य-
भिधायास्तान्यदप्यतिथिसत्कारोचितमुपढौक्य प्रसादनाय प्रणामम-
करोत् ॥ ख ॥
मुनिस्तु 'गौरवमुखि, वृत्तमुक्तोऽयं हारः, दोषालयमङ्गदम्, ज-
तदिति ॥ तस्माद्। अलं पूर्णतामनेन । आलापे संभाषे आलस्याभव्यस्य
सतो भव्यस्य च प्रपञ्चेन विस्तारेण । प्रकृतं प्रक्रियत् इति भावः । उक्तयो हि
सप्रतिपक्षा भवन्त्यालप्रतिषेधे सतोऽपि प्रतिषेधः । तथाहि—'सन्तः सच्चरितो-
दयव्यसनिनः प्रांडुर्भवेद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा ।
अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो
जनः प्राकृतः' । अथवा । आलापस्य आलेनावस्तुरूपेण सन् न परमार्थेन सन् यो-
ऽसौ प्रपञ्चस्तेनालं निरर्थकत्वात् । यदुक्तम्—'यदेवार्थक्रियाकारि तदेव परमार्थ-
सत्' । दारुणं नयशोभाजनपाठानहिंसकेत्यादिकस्य मुनीनां प्रतिपादनाद्रौद्रं वदनं
यस्यास्तस्यांः संबोधनम् । न अरविं नक्तं समयम् । अपितु सरविं संध्यासमयं मुन-
योऽप्यनुपालयन्ति । नक्तमित्यनेन संध्या लक्ष्यते । वयमपि मुनयस्ततोऽस्माकं
संध्यावसर इत्यभिप्रायः । स्तुतौ अरविन्दवदरुणं वदनं यस्यास्तस्याः संबोधनम् ।
नैते मुनयः संध्याकालमनु पश्चात्पालयन्ति । अवश्यविधेयलात्तत्कालमेवेत्यर्थः ।
तस्मादनुजानीहि यामो वयम् ॥ क ॥
इतीति ॥ इत्युक्ता सा राज्ञी महर्षे इत्याद्यभिधायातिथ्यसक्रियायोग्यमुपादाय
हर्षयितुं प्रणतिं चक्रे ॥ ख ॥
मुनिस्त्विति ॥ वृत्तमुक्तो वर्त्तुलमौक्तिकः शीलरहितश्च । दोषाशब्दो भुज-
पर्याय इति दोषा बाहू आलयो यस्य । दोषा अवद्यानि च । यद्विश्वः—'दोषा
रात्रौ भुजेऽपि च' । जघने भवं जघन्यं गर्हितं च । तादृक् पदमाश्रयो यस्य ।
सदा शश्वत् पदे पादावधिष्ठानमाश्रयो यस्य । पक्षे सतामप्यापदमासमन्ताद्-
१ 'माध्याह्निकसमयः'. २ 'ब्राह्मी परिषद्'. ३ 'गगनमध्यम्'. ४ 'भगवानेष'.
५ 'लोचने'. ६ 'मर्षणीयोऽस्माकमयंन्'. ७ 'एतान्युल्लसन्'.