सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 94, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 94

७६ नलचम्पूः ।
कैर्बहुकदलीकैः पलाशप्रायैः कुजन्मभिः सहसंवससि ॥ क ॥
किमन्यद्ब्रूमो वयम्
यस्य ते सदाचारविरुद्धः पुष्पवत्कान्ताराग एव प्रियः ॥ ख ॥
तदलमेन तापसहितेन कन्यावरप्रदानेन' इति ॥ ग ॥
एवमभिहितः सोऽपि तां बभाषे ॥ घ ॥
'दोषाकरमुखि, किं मामुपालभसे । प्रायः प्राणिनामीशः शंभुरेव
शुभाशुभं कर्मालोक्य तुलाधर इव तुलितं फलमुपकल्पयति ॥ ङ ॥
तथाहि ।
यद्यावद्यादृशं येन कृतं कर्म शुभाशुभम् ।
तत्तावत्तादृशं तस्य फलमीशः प्रयच्छति ॥ १७ ॥
अथवा ।
मत्तमातङ्गगामिनि, यस्यास्तवाप्रमाणालोचनश्रीः सा त्वं बलिसंश्र-
यावलग्ना कस्य नाधिक्षेपं जनयसि ॥ च ॥
कोः कत् । बहु कदलीकं येषाम् । तथा पलं पिशितमश्नन्ति ये तेषां प्रायैः सदृशैः ।
तथा कुत्सितं जन्म येषां तथाविधैः सह वासं विधत्से । पक्षे कदम्ब-कुरवक-कद-
ली-पलाशा ये कुजन्मानः कौ पृथिव्यां जन्म येषामिति कृत्वा भूरुहस्तैः सह संव-
ससि । मुनयो हि मृगनगप्रियाः । वनवासित्वात् ॥ क ॥
यस्येति ॥ पुष्पवतीषु हि कान्तासु राग आसक्तिः । आचारविरुद्धः कुलधर्मा-
नुचितः । पक्षे सदाचारेत्यामन्त्रणम् । विभिः पक्षिभी रुद्धः पुष्पवान्कान्तारस्या-
गस्त्युरेव प्रियः ॥ ख ॥
तदिति ॥ तस्मात् तापस तपस्विन्, हि स्फुटं ते तव संबन्धिना कन्यावरप्र-
दानेन नालं न पर्याप्तं नेष्टं पूर्णत इति यावत् । यतोऽहं पुत्रार्थिनीति । अथवा तापः
संतापस्तत्सहितेन । पक्षे तापसेत्यामन्त्रणम् । तेनानेन कन्यावरप्रदानेनालं नान्य-
त्रार्थनीयमित्यर्थः ॥ ग ॥
दोषेति ॥ दोषाणामाकरो मुखं यस्यास्तत्संबोधनम् । पक्षे दोषाकरश्चन्द्रः ॥घ॥
मत्तेति ॥ मत्तः क्षीबो मातङ्गः शबरस्तद्वद्गच्छसि चेष्टसेऽवश्यम् । स ह्यनु-
चितचेष्टः त्वमपि तथा क्षीबा । म्लेच्छाभिगमस्त्वनुचितत्वान्न व्याख्येयः । पक्षे
मातङ्गे हस्ती । यस्या भवत्या आलोचनश्रीर्विवेकसंपदप्रमाणा प्रत्यक्षादिप्रमाणा-
पेता सा त्वं बलिनो बलवतो राज्ञः संश्रयेऽवलग्नावष्टब्धा कस्य पूज्यस्यापूज्यस्य
वा अधिक्षेपं तिरस्कारं न करोषि । सर्वस्यापि करोष्येव । पक्षे लोचनश्रियः प्रसू-
त्यादिप्रमाणातिरिक्तत्वम् । बलिरुदररेखा । अवलग्नं मध्यम् । एवंविधा सा त्वं
शुभलक्षणा कस्य आधिक्षेपं मनःपीडाया अपनोदं न करोषि ॥ ङ ॥
१ 'उक्तः'. २ 'आलोच्य'. ३ 'तुलाधार'. ४ 'अनुकल्पयति'.