नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 96, कुल 258 में से
संदर्भ में पढ़ें७८ नलचम्पूः ।
धन्यपदाश्रयं काञ्चीदाम, सदापदाधिष्ठानं नूपुरम्, अलं कारो भ-
वद्विधानामेव राजते नास्माकम् । इयं च परिमलवाहिनी माला
निबद्धमधुकरालापाचीनं वासश्च तवैवोचितम्' इत्यनेकधा श्लिष्टा-
लापलीलयातिवाह्य काश्चित्कालकलाः करकलितकमण्डलुर्मण्डलेश्व-
रमापृच्छद्य तां चे प्रियंगुमञ्जरीं जरठतमालनीलमम्बरतलमुदपत-
त् ॥ क ॥
वियति विशदंविद्युल्लोललीलायमाने
स्फुरदुरुपरिवेषकारकान्तौ मुनीन्द्रे ।
अथ गतवति तस्मिन्विस्मयोत्तानताक्षः
क्षितिपतिरवतस्थे स्थाणुसंस्थां दधानः ॥ १८ ॥
स्थित्वा च तत्कथावस्थया काश्चित्कालकलाः कलापिकुलोत्कण्ठा-
कारिणि रणति नवजलधररवगमणीये मध्याह्नगम्भीरभेरीसंखे शङ्ख-
युगलके, विशति विसकाण्डकवलनमपहाय तीव्रतरतपनतौपत्ताम्य-
त्तनुनि नवनलिनीछद्मच्छायामण्डलमुपवनदीर्घिकावतंसे हंसकुले कुमु-
दकुवलयाम्भोजपत्रपुञ्जपञ्जरान्तरमनुसरति परिहृतोष्णमधुनि, मुकु-
लितपक्षपुटे षट्चरणचक्रवाले, चटुलाग्रिमखुरशिखरोल्लिखितधरणिम-
ण्डलेषु खण्डितखर्वदूर्वानालनीलघुरघुरायमाणघोणाकोणेषु विमुच्य-
मानेषु पिपासातुतुरंगेषु, घर्मविघूर्णितेषु ससूत्कारकरविमुक्तसींकरा-
सारवर्षेणार्द्रिताङ्गेषु मज्जनाय सज्जतेषु सेवागतराजकुञ्जरेषु, क्री-
धिष्ठानं नगरम् । आपदामाधेश्च स्थानमिति वाक्ये तु सुषामदित्वात्वत्वम् ।
इति प्रकृतेऽलंकारस्य वर्णनं गौणवृत्त्या दूषणम् । तस्मादेवं दोषयुक्तोऽलंकारो
युष्मादृशीनामेव भाति, नास्माकं यतीनाम् । यतो हि चारित्रमण्डनाः । नर्मणस्तु
अलमत्यर्थं कारो राजग्राह्यभागस्तद्वतीनां राजपत्नीनां संगच्छते, नास्माकं
वनवृत्तीनाम् । लोकस्योपकुर्म एव वयं, न कुतोऽपि किंचित्प्रतिगृह्णीम इति
भावः । इयं च सुगन्धिः समङ्गलापा स्रक् चीनमंशुकं च तवैव युक्तं, नास्मा-
कम् । यस्मात् परितो मलं वहति । तथा निबद्धमधुना समवेतसुरया कराला
एवंभूतासौ स्रक् । अपाचीनं निकृष्टं च वासः । इति समयं कंचिच्छ्लेषोक्तिभि-
र्निर्गम्य गगनमुदगात् ॥ क ॥
वियतीति ॥ विस्मयान्निश्चलाकृतिर्नृपः स्थाणुनोपमितः ॥ १८ ॥
स्थित्वा चेति ॥ राजापि निश्चलनेत्रस्तथा तमवलोक्य कंचिच्च समयं तत्कथा-
१ च 'प्रणताम्'. २ 'लीलायमान'. ३ 'कारिणिनव'. ४ 'सखशङ्खः'. ५ 'तापातें
न्ततनुलिनी'. ६ 'खण्डिततन्वदूर्वा' ७ 'दूर्वाङ्कुर'; 'दूर्वाग्रय'. ८ 'महाधर्म'.