नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 93, कुल 258 में से
संदर्भ में पढ़ेंविवेकः सह संपत्त्या विनयो विद्यया सह ।
प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ॥ १६ ॥
तदेतत्समस्तमस्ति त्वयि दीर्घायुषि, श्रूयतामिदानीं प्रस्तुतम् ।
अनवरतसुरासुरचक्रचूडामणीकृतचरणरजसश्चन्द्रचूडामणेर्देवस्यादेशे-
नागता वयम् । अवाप्स्यसि सकलजलधिजलकल्लोलमालालंकार-
भाजो भुवो भर्तुरुचितमतिमान्यं धन्यमसामान्यं कन्यारत्नम्' इति
॥ क ॥
एवमुक्तवति तस्मिंस्तपस्विनि पुत्रार्थिनी कंन्यालाभं मन्यमाना
विप्रियं प्रियंगुमञ्जरी जरन्मञ्जीररवजर्जरविलक्षाक्षरया गिरा कुर्वा-
णैव क्रोधपरिस्पन्दं निन्दास्तुतिधर्मेण नर्मलीलाकलहमकरोत् ॥ ख ॥
'नयशोभाजन, कृतकुटीककुशाग्रग्राहिन्नवेदनोद्गारं कृतवानसि
क्वापि । सर्वदानादेयेषु प्रतिकूलवर्तिषु जलेषु रतिं कुर्वाणः पाठीनहिं-
सको धीवर इवोपलक्ष्यसे । कुरङ्गेषु प्रीतिं बध्नासि । कदम्बैः कुरव-
विवेक इति ॥ प्रश्रयः प्रणयः ॥ १६ ॥
एवमिति ॥ क्रोधस्य परिस्पन्दं चेष्टां कुर्वाणेव ॥ क ॥
नयेति ॥ यशोभाजनेत्यामन्त्र्यस्य नञ्योगः । तथा कृतानि कृत्रिमाणि, नतु
वेदवदपौरुषेयाणि । कुत्सितटीकानि कुशाग्राणि गृह्णासीत्येवंशीीलः । यस्मादवेदो
वेदपाठरहितः । इदमपि द्वयमामन्त्र्यम् । क्वापि न उद्गारमुच्चारणं कृतवानसि ।
वक्तुमपि न वेत्सीत्यर्थः । स्तुतिपक्षे नयश्च शोभा च ते जनयसि । यद्गृहमाग-
तोऽसि तस्येति शेषः । तथा कृता कौ पृथिव्यां टीका गमनं येन । स्वर्गाणाप्य-
स्मदनुजिघृक्षयेति शेषः । कुशो दर्भ एवाग्रं गृह्णास्यवश्यम् । एतेनादृश्यशत्रू-
णामपि विघातोक्तिः । वेदना दुःखं तदर्थमुद्गारमुच्चारणं क्वापि नाकरोः । एतेन
प्रियंवदलोक्तिः । निन्दायां अनादेयेष्वश्रद्धेयेषु जडेषु रतिं विदधद्धिंसको धीवर
इवावबुध्यसे । धीरोऽपि किल नादेयपयःसु कूलं कच्छं प्रति वर्तमानेषु रतिं
कुरुते । पाठीनाहारत्वात् । पक्षे सर्वकालमेव नदीभवेषु कूलं कूलं प्रति वर्तमानेषु
वारिषु रागमासक्तिं कुर्वाणः पाठवान् 'न हिंसाशीलो' धिया बुद्ध्या वर एवाव-
गम्यसे । एतेन तीर्थस्थास्त्वदयालुज्ञानी च । कुत्सितो रङ्गो वासना येषां तेषु विषयेषु
प्रीतिमान् । पक्षे कुरङ्गा मृगास्तेषु प्रीतः । कदम्बैः कुमातृकैः । कुत्सिता अम्बाः
कदम्बाः ताश्च दुश्चेष्टितैः कुर्वन्ति आचक्षते वा इति णिजन्तादचि सिद्धम् । बहु-
व्रीहौ तु कोः कद् भवति । कुत्सितो रवो येषां तैः । कुत्सितमलीकं कदलीकम् ।
१ 'सतां मतम्'. २ 'तदिदं सर्वमस्ति दीर्घायुषि त्वयि'. ३ 'जलनिधि'. ४ 'कन्या-
लाभमलाभं मन्यमाना'; 'कन्यालाभं विप्रियं मन्यमानाः'. ५ 'जर्जरिताक्षरविलक्षया'.
६ 'वाची'.