नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 92, कुल 258 में से
संदर्भ में पढ़ें७४ नलचम्पूः।
'अद्य मे सुबहोः कालाच्छ्लाघनीयमभूदिदम् ।
त्वत्पादपद्मसंस्पर्शसंपन्नानुग्रहं गृहम् ॥ १२ ॥
यतः संमस्तमुनिमनुजवृन्दारकवृन्दवन्दनीयपादारविन्दाः, परमा-
नन्दपरिस्पन्दभाजः पांसूनिव पार्थिवान्, तृणमिव त्रैणम्, निधन-
मिव धनम्, रोगानिव भोगान्, राजयक्ष्माणमिव लक्ष्मीम्, आक-
लयन्तः सकलसंसारसुखविमुखाः कस्य भवादृशा भवनमवतरन्ति ॥
॥ क ॥
तदहमद्यानवद्यस्य भगवन्नभूवं भूम्नो यशोराशेर्भाजनम्, आरूढः
पदं श्लाघार्हम्, आगतो गुणिषु गौरवम्, उपलब्धवान्धन्यताम्, संपन्नः
पुण्यवतामग्रणीः, जातो जनस्य वन्दनीयः ॥ ख ॥
तदित्थमनेकप्रकारोपकारिणां किं ब्रवीमि, किंकरोऽस्मीति पौन-
रुक्त्यं सर्वस्वामिनाम् । केनार्थित्वमित्यनुचितादरो निःस्पृहाणाम् ।
इदं मे सर्वस्वमात्मीक्रियतामिति स्वल्पोपचारः स्वाधीनाष्टगुणैश्वर्या-
णां भवताम् । तथापि प्रणयेन भक्त्या च मुखरितः किंचिद्विज्ञापया-
मि ॥ ग ॥
'इदं राज्यमियं लक्ष्मीरिमेदारा इमे गृहाः ।
एते वयं विधेया वः कथ्यतां यदिहेप्सितम्' ॥ १३ ॥
मुनिरप्यवनीशस्य विनयमनभिनन्द्य स्निग्धमुग्धस्मितसुधाधवलिता-
धरपल्लवमब्रवीत्—'उचितमेतद्भवतादृशां वक्तुं कर्तुं वा ॥ घ ॥
उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम् ।
सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ॥ १४ ॥
अपिच ।
यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया ।
चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥ १५ ॥
अपिच ।
उपेति ॥ इन्दुः केन शिशिरीकृतः । स्वभावादेव शिशिर इत्यर्थः ॥ १४ ॥
यथेति ॥ वाचीत्येकत्वेऽपि जात्या बहुलप्रतीतिः ॥ १५ ॥
१ 'प्रशस्त'. २ 'मनुजबृन्दवृन्दारक'. ३ 'स्निग्धस्मित'. ४ 'पल्लवस्तमब्रवीत्'.
५ 'उपकर्तुं च'. ६ 'क्रियाः'.