नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 87, कुल 258 में से
संदर्भ में पढ़ेंतृतीय उच्छ्वासः । ६९
नजने, जाते जरज्जपाप्रसूनभिन्नस्फुटस्फटिककान्तिसंमप्रभे प्रभातस-
मये, सा समुत्थाय भूत्वा शुचिर्विकचनवनलिनगर्भमर्घ्यञ्जलिमवकीर्य
भगवतः सवितुः स्तुतिमकरोत् ॥ क ॥
वासरश्रीमहावल्लीपल्लवाकारधारिणः ।
जयन्ति प्रथमारम्भसंभवा भास्वदंशवः ॥ ४ ॥
जयत्यम्भोजिनीखण्डखण्डितालस्यसंचयम् ।
कौङ्कुमं पूर्वदिग्गण्डमण्डनं मण्डलं रवेः ॥ ५ ॥
राजापि प्रथमप्रबुद्धप्रगीतगीतध्वनिनिर्रस्तनिद्रः, सान्द्रविद्रुमप्रभा-
भासि संध्यावसरे, विधाय सांध्यं विधिम्, अधिकृतेन धर्मकर्मणि त-
त्कालपुरःसरेण पुरोधसा संह तामेवान्वेष्टुमन्तः पुरमाजगाम ॥ ख ॥
दृष्ट्वा च विस्मयमानः स्फुरदरविन्दसुन्दराननाम् 'अनुगृहीतेय-
मिन्दुमौलिना' इत्यवधारयन्, अतिहर्षोत्कर्षमन्थरगिरा तां बभाषे
॥ ग ॥
'मुग्धस्निग्धनिरुद्धशश्वद्दहसितस्फारीभवल्लोचनं
तिर्य्यक्कान्तिकपोलपालिपुलकस्पष्टीकृतान्तर्धृति ।
एतत्त्वे करभोरु पङ्कजसदृग्दृष्ट्वा मुखं मे वला-
दुच्चैः किंचिदचिन्त्यचर्चितचमत्कारं मनो हृष्यति ॥६॥
तत्कथय शप्तासि ममाज्ञया हर्षवृत्तान्तम्' इत्यभिहिता सा स्मित-
सुधानुविद्धमुग्धमुखवीणाकणकोमलालापेन सर्वमादितः स्वप्नदर्शनमा-
चचक्षे ॥ घ ॥
क्षितिपतिस्तु तदाकर्ण्य 'प्रिये, मयापि स भगवान् । आत्मानु-
तारोऽत्युच्चध्वनिः । ग्रामरागः पञ्चमः । यद्वा षड्जमध्यमगान्धारांस्त्रींस्त्रीन्ग्रामान्रागं
च भरतोक्तं षड्विधं गायके गायति सति ॥ क ॥
राजापीति ॥ प्रथमप्रबुद्धा ये प्रकृष्टगीतास्तद्गीतध्वनिना ध्वस्तनिद्रः ॥ख ॥
मुग्धस्निग्धेति ॥ मणिवन्धकनिष्ठिकयोर्मध्यं करभस्तद्वदूरू यस्याः । तत
ऊरु तस्याः संबोधनम् । ईदृशं ते मुखं दृष्ट्वा सहसाचिन्त्याधिगतचमत्कारं मे मनो
हृष्यति ॥ ६ ॥
क्षितिपतिस्त्विति ॥ अग्रे स्थितं पुरोहितमित्यमुना प्रकारेण राज्ञीकथनत्न-
१ 'स्फटिक'. २ 'सप्रभे'. ३ 'वल्लि'. ४ 'पूर्वदिक्तुण्ड'. ५ 'गायनगीत'. ६ ध्वस्त.
७ 'प्रभासि प्रभातसमये संध्या'. ८ 'कृतेऽधिकधर्मकर्मणि'. ९ 'समम्'. १० 'स विस्मय-
मनाः'. ११ 'मन्थरया गिरा'. १२ 'निर्यत्कान्ति'. १३ 'वर्धित'. १४ 'मुग्धवीणा'.
१५ 'आत्मानुकारिणा'.