सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 88, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 88

७० नलचम्पूः ।
हरिणा विनायकेन स्वामिना च शक्तिमता पुत्रेणानुगम्यमानो,
दग्धकामः पूरितकामश्च, एककपर्दक ईश्वरश्च, ससोमश्चासोमः,
सविभवश्चाविभूतिश्च, पिनाकी चापिनाकी । दृष्टः स्वप्नान्तरे तरुणार्क-
मण्डलमध्यवर्ती प्रणतप्रियंकरः शंकरः । तदेष ब्राह्मणः करोतु संवा-
दिनोरनयोः स्वप्नयोरर्थपरामर्शम्' इत्यभिधाय तां, तमवस्थितं पुरः
पुरोहितमैभाषयत् ॥ क ॥
सोऽपि 'देव, दिष्ट्या वर्धसे । अनल्पपुण्यप्राप्यमेतत्तरुणेन्दुमौले-
रालोकनम्, ॲवश्यमवाप्स्यति देवी सकलराजचक्रचूडामणिकल्पम-
शेषभुवनभ्रान्तशुभ्रयशःपिण्डडिण्डिममपत्यम्' इत्यनेकधा तयोराशंस-
यांचकार ॥ ख ॥
एवंविधे च व्यतिकरे कोऽपि कान्तकार्त्तस्वरस्वरूपमुत्फुल्लपाण्डु-
पुष्पमालया मेरुशिखरमिव प्रदक्षिणाक्षीणलभ्रया नक्षत्रराज्या जनित-
शोभं जटाभारमुद्वहन्,अतिबहलसलयजरसरचितविचित्रपुण्ड्रकमण्ड-
नाममरशैलशिलामिव रङ्गतित्रिस्रोतसं ललाटपट्टिकां कलयन्, प्लवमान
इवोज्जृम्भत्पङ्कजकिंजल्ककपिलकायकान्तिकल्लोलेषु, करुणारसपूर्णव-
क्षःस्थलदीर्घिकायामन्तस्तरन्तीं बालकहंसपक्षिपङ्क्तिमिव स्फारस्फो-
क्षणेनावोचत् । यत् प्रिये, स भगवान्शंकरो मयापि स्वप्नान्तरे दृष्टः । कीदृशः ।
सामर्थ्यवता हेरम्बेण, शक्तिशस्त्रभृता षण्मुखेन चात्मप्रतिमेनानुगम्यमानः । शिवो-
ऽपि विगतनायकः सकललोकस्वामी शक्तिमांश्च शिवशक्त्योरविनाभावसंबन्धा-
दित्यात्मसादृश्यम् । कामः स्मर इच्छा च । कपर्दो जटाबन्धः । विरोधपक्षे वराटः
ईश्वरो धनवान् । ससोमः सेन्दुः । सह उमया वर्तत इति सोमः । ततो
नञ्योगः । विगता भवो येभ्यस्ते विभवा मुक्तात्मानः । तैः सह । भगवत्सायुज्यं
हि मुक्तिरिति वृद्धाः । तथा विशिष्टा भूतिर्यस्य । भस्म च । पिनाकं धनुरस्या-
स्ति । अपीति भिन्नम् । नाकी स्वर्गी । यद्वा 'चप सान्त्वने' । चपयन्ति
सान्त्वयन्त्यनुनयन्त्यवश्यं चापिनः प्रसादका नाकनो यस्य ॥ क ॥
एवंविध इति ॥ कोऽपि मुनिः सूर्यमण्डलादवातरत् । कनकपिङ्गजटाभारस्य
मेरुशिखरं पुष्पमालायाश्च नक्षत्रराजिरुपमानम् । लग्नं संबद्धं ज्योतिषप्रणीतं च ।
ललाटस्य शिला तिलकानां च गङ्गोपमानम् । परिवृत्तो मुनिभिः । कीदृशैर्विंकि-
र्धशाखैः । शाखा कठबह्वचादिर्लता च जटा केशरचना मूलं च । वल्कलं वृक्षत्वक् ।
१ 'असोमश्च'. २ 'अभिधाय तमवस्थितं पुरः'; 'अवस्थितं पुरः'. ३ 'अभाषत'.
४ 'अचिरात्'. ५ 'आशंसां चकार'. ६ 'भासुरस्वरूप'; 'भास्वरस्वरूप'. ७ 'त्रिपुण्ड्रक'.
८ 'कमलदीर्घिकायाम्'. ९ 'स्फटिकाक्षमालाम्'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA