नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 86, कुल 258 में से
संदर्भ में पढ़ें६८ नलचम्पूः ।
मा भैषीः । प्रत्यूषसि मन्नियोगाद्दमनकनामा महामुनिरेष्यति स
तेऽनुग्रहं करिष्यति' इत्यभिधाय स्वश्रवणशिखरान्तरादमन्दमकरन्दस्यं-
न्दसुन्दरामोदमाद्यन्मधुकररवरमणीयां पारिजातमञ्जरीमदात् ॥ क ॥
सापि 'प्रसादोऽयम्' इत्यभिधाय स्वप्न एव प्रणामपर्यस्तमस्तका
स्तुतिमकरोत् ॥ ख ॥
तुभ्यं नमो नमल्लोकशोकसंतापहारिणे ।
व्यर्थीकृतान्धकारातिदम्भारम्भाय शंभवे ॥ १ ॥
विभो विभूतिसंपन्न पन्नगेन्द्रविभूषण ।
नमो नमोघसंकल्प तुभ्यमभ्यन्तरात्मने ॥ २ ॥
अत्रान्तरे तरणिकोमलकान्तिभिन्न-
भास्वत्सरोजदलदीर्घविलोचनायाः ।
तस्याः प्रबोधमकरोद्रजनीविराम-
यामावसानमृदुमङ्गलतूर्यनादः ॥ ३ ॥
क्रमेण च प्राच्यां सिच्यमानायामिव वँहुलकुसुम्भाम्भःकुम्भैः
ककुभि, प्रभवति तारकोच्छेदनाय सुकुमारे रश्मिजाले, पूर्वाचलस्थ-
लीमधिरोहति जगत्प्रबोधप्रारम्भमङ्गलकलशेऽंशुमालिमण्डले, ताण्ड-
वाडम्बरिणि पुण्डरीकखण्डे, हिण्डमानासु दीर्घिकामण्डनमण्डमा-
लासु कारण्डवमण्डलीषु, विश्राम्यति श्रवणपुटेषु हृदयानन्दिनि वन्दि-
वृन्दारकवृन्दवन्दनारम्भरवे, रणयत्सु वीणावेणुकोणान्वैणिकवैणवि-
केषु, कण्ठकुहरप्रेङ्खोलनालंकारकुशले तारतरं गायति ग्रामरागं गाय-
वाः पाथो यस्याः । अथवा सर्वं ददातीति सर्वदाः । आनूयन्त इत्यानवाः तथोक्ता
वारोऽस्याः । एतेन कामुकत्वेन नर्मवचनादात्मजलानां खलुत्यलोक्तिः ॥ क ॥
तुभ्यमिति ॥ अन्धकारातीति कर्मधारयः ॥ १ ॥
विभो इति ॥ विभुः सर्वव्यापी । विशेषेण भूत्या भस्मना संपन्नः समृद्धः ।
यद्वा विभूत्या चतुर्दशभुवनाधिपत्यलक्षणया । तथा वासुकिभूषणः । मोघो निष्फलः
संकल्पो ध्यानं यस्य । पश्चान्नञ्योगः । एतानि शिवसंबोधनानि ॥ २ ॥
क्रमेणेति ॥ यथा माहेन्द्र इन्द्रः, तथा सुकुमारः कुमारः । स हि तारकासु-
रोच्छेदनाय प्राभवत् । सुकुमारं मृदु रश्मिजालं तु तारकाणां नक्षत्राणामुच्छि-
त्तये । वैणिकवैणविकौ वीणावेणुवादकौ । अलंकाराश्च मुद्रितविवृत्तानुनासिकादयः ।
१ 'मन्नियोगाद्दमनकनामा महामुनिः प्रातरेष्यति'. २ 'विन्दुनिस्पन्द'.
३ 'प्रणामावनमितमस्तका'. ४ 'नमोऽस्त्वमोघ'. ५ 'तुरीययामा'. ६ 'क्रमेण प्राच्याम्'.
७ 'बहुलकुङ्कुमाम्भः'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA