नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 85, कुल 258 में से
संदर्भ में पढ़ेंतृतीय उच्छ्वासः। ६७
निकुञ्जे शिञ्जानमञ्जीरमञ्जुलमुन्नदत्सु शरद्बलाहकवलक्षपक्षविक्षेप-
पवनतरलिततरुणतामरसेषु दीर्घिकावतंसेषु, हंसेषु केंकोरयति च चक्र-
वाकमिथुनमेलकमङ्गलमृदङ्ग इव रौप्यघर्घररवसरसं सारसकुले,
अवश्य़ायजलशिशिरशीकरिणि मन्दान्दोलितविनिद्रद्रुममञ्जरीरजःक-
णकषायिते तमःसर्पसंदष्टोज्जीवितजगन्निश्वासायमाने प्रस्खलति प्रभा-
तसुरतश्रमखिन्नसुन्दरीकुचमण्डले मरुति, मनोहारिहारीतहरितहये
हरति तिमिरपटलपटीं गगनलक्ष्म्याः करपरामृष्टपयोधरे रागवति
सवितरि, मृगमदमिलितवैहलकुङ्कुममण्डनमञ्जरीभिरिव पिञ्जरिते
पुरंदरदिङ्मुखे सुखप्रसुप्ता सा स्वप्नमद्राक्षीत् ॥ क ॥
किल सकलसुरासुरशिरःशेखरीकृतचरणकमलः, कमलाधिवासेन
ब्रह्मणा नारायणेन च रचितरुचिरस्तुतिः, कृशानुरूपेण ललाटलोच-
नेन चन्द्रमसा च भासमानः, विकचं कर्णे कुवलं करे कपालं च
कलयन्, अहिंसाटोपं मनसा शिरसा च विभ्राणः, प्रोज्ज्वलन्नय-
नार्चिश्रिताभस्म च समुद्वहन्, अधिकङ्कालेन स्कन्धेन कंधरार्धेन च
विराजमानः, सालसदृशं भुजवनं भवानीं च दधानः, सर्वदानववारं
त्रिशूलं मन्दाकिनीं च धारयन्, देवो दर्पितदनुजेन्द्रनिद्राहरो हर-
श्चन्द्रमण्डलादवतीर्य 'पुत्रि प्रियंगुमञ्जरि, मञ्जरीमिमां गृहाण ।
ददर्श । अन्योऽपि रागवानासक्तः किल पटीमुत्सार्य कराभ्यां पाणिभ्यां स्तनौ
स्पृशति । शरद्बलाहकवलक्षाः शरदभ्रधवलाः । केंकारो वाद्यविशेषः ॥ क ॥
स्वप्नमाह—किलेति । वार्तोक्तौ । हरः शक्तिमण्डलादुत्तीर्य पुत्रीत्यभिधाय
ईदृशीं पारिजातमञ्जरीमदात् । कीदृशो हरः । ब्रह्मणा विष्णुना च कृतस्तुतिः ।
द्वयेनापि कीदृशेन । कमलेऽधिवासोऽस्य पद्मासनत्वात् । विष्णुस्तु कमलायाः श्रिया
अधिवासस्तेन । तथा वह्निखरूपेण नेत्रेण चन्द्रमसा च कृशेन क्षामेण अनुगत-
रूपेणाविनाभावसंबद्धमूर्त्तिना लसन् । तथा विकचं सविकासम् । कपालं तु विगताः
कचाः केशा अस्मादिति विकचम् । तथा अहिंसाया आटोपमावेशम् । अहिं च
साटोपं सस्पन्दम् । प्रोज्ज्वलद्दीप्यमानम् । भस्म तु प्रकर्षेणोज्ज्वलम् । अधिगतं
कङ्कालं शरीरास्थि अर्थात्खट्वाङ्गं येन । कंधरार्धेन तु कालेन सह कालकूटत्वात् ।
अधिकमिति क्रियाविशेषणम् । सालद्रुमतुल्यं प्रांशुत्वात् । पक्षे सालसे लीलामन्थरे
दृशौ यस्याः । सर्वान्दानवान्वारयति । गङ्गा तु सर्वदा नित्यं नवा अविच्छाया
१ 'मञ्जीररव'। २ 'केंङ्कारयत्सु मधुररवभरितभुवनेषु चक्रवाकमिथुनमेलकमङ्गलमृ-
दङ्गेष्विव रौप्यघर्धरीझर्झररवसरसं सारसकुलेषु; केंङ्कारयति चक्रवाकमिथुनमेलकमङ्गलमृ-
दङ्ग इव भरितभुवने रौप्यघर्धरीघर्घररवसरसं सारसकुले'। ३ 'बहुल'. ४ 'भूत'. ५
'कमलाधिवासिना. ६ 'विरचित'. ७ 'लोचनचन्द्रमसा'.