सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 80, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 80

६२ नलचम्पूः ।
एवमनयोः संकलसंसारसुखरसास्वादमुदितमनसोर्यान्ति दिवसाः
॥ क ॥
कदाचिच्चदुलतरतरुणषट्चरणचक्रचुम्बनाक्रमणभरभज्यमानमञ्ज-
रीजालगलदमन्दमकरन्दबिन्दुकर्दमलेषु विविधाङ्गविहंगविहारविद्-
लितदलदन्तुरान्तरालेषु स्मरबन्धुसुगन्धिगन्धवाहर्वाजिवाह्यालीषु वर-
दायाः पुण्यपुलिनपालिपादपतलेषु रममाणयोः परिणतेन्द्रवारुणारुण-
कपोलकान्तिरुल्लुषितदेहपिण्डकण्डूयनाकूततरलितकरकिसलया बाल-
कमेकमूदरदेशलमपरमपि पृष्ठप्रतिष्ठितमुद्वहन्ती कापि कपिकुटुम्बि-
नी दृष्टिप्रथमवातरत् ॥ ख ॥
तां चावलोक्य चेतस्यास्पदमकरोत्त्तयोरनपत्ययोर्विषमविषादवेदना-
व्यतिकरः ॥ ग ॥
करपत्रधाराकैर्तनदुःसहदुःखदूनमनसोर्वैर्मैनस्यमभूद्धैंम्नि राज्ये जने
जीविते च । किमनेनाधिपत्येनापत्यशून्येन ॥ घ ॥
सर्वथा सकलसुरासुरकिरीटकोटिकर्णशोणमणिमरीचिचञ्चरीक-
चुम्बितचरणाम्बुजमम्बिकाप्रियं प्रतिपद्यामहे महेश्वरमित्यन्योन्यमा-
लोचयांचक्रतुः ॥ ङ ॥
अथ विपुलवियद्विलङ्घनश्रमप्रशमनार्थमरुणेन वारुणीं प्रतिपानाथँ-
मिवावतार्यमाणेषु रविरथतुरंगमेषु, अपरासक्ते दिवसभर्तरि शोकम-
रादिव तमःपटलेनापूर्यमाणामाश्वासयितुमिव पूर्वां दिशमभिधावमा-
नासु पादपच्छायासु, हारीतहरितहरिहारिणस्तररेणरण्यान्तराच्च मन्द-
लक्ष्मीरसः सुन्दरतरश्चास्तरः । तरङ्गै रङ्गन्विलसन्निव । रसो हि भरादजिह्यौ
लसति तरङ्गैश्च रञ्जति ॥ ३० ॥
कदेति ॥ मधुबिन्दुकर्दमवत्सु । पर्णदन्तुरमध्येसु । स्मरबन्धुः सुगन्धिगन्ध-
वाह एव वाजी तस्य वाह्यालीप्रायेषु । वरदातरुतलेषु क्रीडतोरुभयोः कपिपत्नी
इन्द्रवारुणीफलपिङ्गलकान्तिर्वानरी नयनपथं गता दृष्टेत्यर्थः ॥ ख ॥
तामिति ॥ तां च वीक्ष्य विषादव्यथासंपर्को हृदि पदमकरोत् ॥ ग ॥
अथेति ॥ अथानन्तरं श्रमशान्त्यर्थे वारुणीं पश्चिमां प्रति लक्ष्यीकृत्य नीयमा-
नेषु रविरथाश्वेषु । प्रतिपानपक्षे वारुणी सुरा । अपरा दिग् अङ्गनान्तरं च । तमो
मोहो ध्वान्तं च । तथा गोमण्डलेषु किरणौघेषु धेनुवृन्देषु च । यथासंख्यं रवे-
र्वनान्तराच्चमन्दं चलमानेषु । द्वयादपि कीदृग्भूपात् । हारीताः शुकाभाः पक्षिणस्त-
१ 'वाह'. २ 'विलोक्य'. ३ 'विकर्तन'. ४ 'वैरस्यम्'. ५ 'निजराज्यजने'.
६ 'कोणमणि'. ७ 'पतिम्'. ८ 'घनश्रम'.