नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 81, कुल 258 में से
संदर्भ में पढ़ेंद्वितीय उच्छ्वासः । ६३
मपवर्तमानेषु गोमण्डलेषु, अस्तांचलवनदेवतादत्तरक्तचन्दनार्घसंलि-
ल्प्लवप्लाव्यमान इव लोहितायति पश्चिमाशामुखे, वारविलासिनीभिः
कपोलमण्डलीमण्डनाय क्रियमाणेषु पत्रभङ्गेषु । भयेनेव पादपैः
प्रारब्धे पत्रसंकोचकर्मणि, विघटिष्यमाणचक्रवाककामिनीकरुणकू-
जितव्याजेन दिवसभर्तुरस्ताचलगमनं निवारयन्तीभिरिव विरहवि-
धुराभिः कमलिनीभिर्विधीयमानेषु प्रार्थनाप्रणामाञ्जलिपुटेष्विव कम-
लमुकुलेषु, क्रमेण पश्चिमाम्भोधितरङ्गान्तरतस्तरुणतरताम्रतामरसा-
नुकारिकेसरायमाणरश्मिमञ्जरीलजटिलमवलोक्य तरणिमण्डलम-
तिसंभ्रमभ्रमद्भमरनिकुरम्ब इव प्रधावमाने दूरं तिमिरपटले, कृष्णा-
गुरुपङ्कपत्रभङ्गभूष्यमाणेष्विव दिगङ्गनामुखेषु, कोकिलकलापैराक्र-
म्यमाणेष्विव वनान्तरेषु, विकचकुकुवलयबर्हलमेचकरुचिनिचयश्या-
मलीक्रियमाणेष्विव सलिलाशयेषु, तापिच्छगुच्छच्छद्मच्छाद्यमाना-
स्विव वनवृत्तिषु, नृत्यत्कलापिकुलकलापैः कालीक्रियमाणेष्विव शैल-
शिरःशिलातलेषु, कज्जलालेख्यचित्रचर्च्यमानास्विव भवनभित्तिषु,
विरहिणीनिःश्वासधूमश्यामीक्रियमाणेष्विव पान्थावसथेषु, कस्तूरि-
कासलिलसिच्यमानास्विव कामुकविलासवासवेश्मवाटीषु, मदान्ध-
सिन्धुरनिरुध्यमानेष्विव नृपभवनाङ्गनेषु, कलितकालकञ्चुकायामिव
गगनलक्ष्म्याम्, मदनशरनिकरविद्रुतदरिद्रविटविपादानलस्फुलिङ्गे-
ष्विव रङ्गत्सु ज्योतिरिङ्गणेषु, काञ्चनीषु तिमिरकरिकुम्भभेदभल्लीष्विव
निशितासु प्रदीष्यमानासु प्रदीपकलिकासु, लवमानपाण्डुपुण्डरीक-
ल्माषितकालिन्दीपरिस्पन्दसुन्दरेऽमृतमथनक्षणक्षुब्धक्षीरसागररसवि-
न्दुस्तवकितनारायणवक्षःस्थल इव कांचिदपि श्रियं कलयति तारा-
विराजिते वियति, विटङ्कान्तमनुसरन्तीषु वेश्यासु वेश्मपारावतप-
द्धद्धरिता नीला ये हरयोऽश्वास्तैर्गच्छति । तस्मात् । वनाच्च हारीतैः शुकाभपक्षि-
भिर्हरितैः शाद्वलैर्हरिभिर्वानरैश्च हारिणो मनोज्ञात् । रक्तचन्दनार्घः प्रस्तावाद्रवेरेव ।
पत्रभङ्गो विलेपनचित्रं पत्रवल्लीसंज्ञं पर्णानां भञ्जनं च । तथा कांचिदपि श्रियं
शोभां नारायणवक्षसि तु श्रियमब्धिपुत्रीं प्राप्नुवति नक्षत्रांलङ्कृते नभसि । कालि-
न्दीपरिस्पन्दो नारायणवक्षश्च वियत उपमानम् । पाण्डुपुण्डरीकाणि क्षीररसवि-
१ 'तरङ्गरङ्गान्तरेषूत्तरत्तरुणताम्र' २ 'जटिलमपि'. ३ 'कोकिला' ४ 'बहललभपद्म-
दमेचक'. ५ 'कलापकाली'. ६ 'शिलातलेषु, उदेष्यमाणनिजनायकालोकेप्रेष्यमाणसंध्या-
वधूटाक्षमचक्रीकृतेष्विव गगनवर्त्मसु, कज्जलालेख्य'. ७ 'विलासवेश्मवेदिकासु'. ८ 'तिमि-
रकरिकुम्भभेदकाञ्चनभल्लीष्विव'.