सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 61, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 61

द्वितीय उच्छ्वासः। ४५
यत्र च
वहति नवविकासोल्लासिकिंजल्कलोभ्य-
न्मधुकरकृतगीता नर्तयन्नब्जराजीः।
वनकरिमदगन्धस्पर्धिसप्तच्छदाली-
कुसुमजकणशारः शारदीनः समीरः ॥ १३ ॥
राजा तु तेन तस्याः सकलललितवनप्रदेशप्रकटनप्रियालापप्रप-
ञ्चेन परितोषितः 'साधु भोः सारसिके सुभाषितमञ्जरि, साधु ।
गृहाण पारितोषिकम्' इत्यभिधाय सर्वाङ्गीणाभरणप्रदानेन प्रसन्ननानां
तामकरोत् ॥ क ॥
ततश्च संचरच्चटुलभृङ्गविहंगवेगवेल्लद्द्रुकुलचम्पकचूतचन्दनमन्दरा-
मन्दस्यन्दमानमकरन्दविन्दुसन्दोहाडम्बरिताकाण्डप्रावृषि, प्रलम्बता-
म्बूलवल्लीवलयितनितम्बनिम्बकिम्बजम्बीरजम्बस्तम्बकदम्बके, कुसु-
मितकरवीरवीरुधि कोरकितकरञ्जाञ्जननिकुञ्जशिञ्जानशुककपिज्जलॆ,
जलदसमयनीरदनीलतमतमालतलताण्डवितशिखण्डिनि, मण्डलित-
मदकलकलहंसोत्तंसकमलवापीमण्डिते, मञ्जरितसिन्दुवारसुन्दरामो-
दनन्दिनि मन्दतरमारुतान्दोलनविलोलकङ्कोलकुट्मलफलनालिकेरक-
वङ्गपूगपुंनागनाग़रङ्गरञ्जितविहङ्गे भृङ्गामुखनखरपक्षराजर्रितसर्जख-
र्जूरमञ्जरीरजःपुञ्जपांसुलभुवि, भुवो भूषणायमाने, सर्वर्तुनिवासना-
मनि वने विहर्तुमारभत ॥ ख ॥
तत्रे च व्यतिकरे प्रैलेयप्रचण्डपवनोल्लासिततनुतुहिनाचलगण्डशै-
ललीलामाकलयन्तः, मन्दमरुत्तरङ्गिततनुतरशरदभ्रविभ्रमायमाणाः,
वहतीति ॥ कुसुमजकणा मकरन्दल्वास्तैः शारः शवलः । शरदि भवानि शारदानि
मुद्र्गादीनि विद्यन्ते येषां ते शारदिनः कृषीवलास्तेषामिनः स्वामी । तत्तत्सस्यसंप-
त्तिहेतुत्वात् ॥ १३ ॥
ततश्चेति ॥ भृङ्गामुखनखरेत्यादौ भृङ्गो धूम्याटः पक्षी ॥ क ॥
तत्रचेति शकलोदितेति ॥ शकलः खण्डशशी हंससदृशो भवति । मन्द-
रगिरिरेव परिक्षेपो मन्थाः ॥ ख ॥
१ 'ललितपल्लवित'. २ 'प्रदानप्रसन्नाननाम्'. ३ 'अनन्तरं चेतस्ततश्च संचरत्';
'इतस्ततश्च संचरत्'. ४ 'वेल्लल्लकुचलसङ्कुल'. ५ 'निम्बजम्बीर'. ६ 'कलहंसमण्डलो-
त्तंस'. ७ 'आन्दोलित'. ८ 'कक्कोलपनसकुट्मलफल'; 'फनसकुसुमकुट्मलफल';
'कङ्कोलकट्फल'. ९ 'पुञ्ज'. १० 'नाम्नि'. ११ 'तत्र व्यतिकरे'. १२ 'प्रलयकालकरालप्र-
चण्ड'.