नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 60, कुल 258 में से
संदर्भ में पढ़ें४४ नलचम्पूः ।
राजते राजतेनायं सानुना सानुनायकः ।
यस्मिन्निशम्य गायन्तं किंनरं किं न रंस्यते ॥ ८ ॥
इतश्चास्य
जनयति जलबुद्धिं बाललीलामृगाणा-
मयमिह पटुकान्तिः स्फाटिको भित्तिभागः ।
इह हरितमणीनामुल्लसन्तो मयूखाः
सरसनवतृणालीलोभमुत्पादयन्ति ॥ ९ ॥
इयं च
गौरवं गौरवंशस्य पर्वतः पर्वतस्थले ।
भ्रमरी भ्रमरीणस्य कुरुतेऽकुरुतेन ते ॥ १० ॥
अपिच ।
इह कवलितकन्दं कंदरे कन्दलिन्यां
भुवि विरचितकेलि क्रीडति क्रोडयूथम् ।
इह सरसिजगर्भभ्रान्तभृङ्गं कुरङ्गाः
सरसि सरलयन्तः कन्धरां कं धयन्ति ॥ ११ ॥
इह पुनरनिशं निशम्य भिन्न-
द्रुममुकुलानि कुलानि षट्पदानाम् ।
श्रुतिसुखकरणं रणन्ति वीणां
तदनुगुणां गुंणयन्ति किंनरेन्द्राः ॥ १२ ॥
इतश्च क्रीडाचलस्थलकमलदीर्घिकातीरतरुतलमनुसरतु देवः ॥क॥
राजत इति ॥ अयं सानुनायको गिरी रजतनिर्मितेन सानुना तटेन राजते ।
यस्मिन्गायन्तं किंनरं निशम्य श्रुत्वा न किं रंस्यते । रंस्यत एव ॥ ८ ॥
गौरेति ॥ गौरो वंशोऽन्वयो यस्य तस्य ते । पर्वतस्थले गिरिस्थले । पर्वतो
गच्छतः । अतएव श्रमेण देहवैकल्येन भ्रमिसंज्ञेन खिन्नस्य सतोऽकुत्सितरुतेन भ्रमरी
भृङ्गी गौरवं प्रतिपत्तिविशेषं कुरुते ॥ १० ॥
इहेति ॥ कं जलम् । धयन्ति पिबन्ति ॥ ११ ॥
इहेति ॥ रणन्तीति शत्रन्तं षट्पदकुलविशेषणम् । तस्य भृङ्गरणितस्यानुगु-
णामनुगामिनीम् ॥ १२ ॥
१ 'कंधराः'. २ 'क्वणयन्ति'; 'गणयन्ति'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA