नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 62, कुल 258 में से
संदर्भ में पढ़ें४६ . नलचम्पूः ।
सुरवारणेन्द्रविक्षोभितगगनमन्दाकिनीपतत्पौण्ड्ररडिण्डीरपिण्डपटला-
नि विडम्बयन्तः, शकलोदितेन्दुमण्डलसहस्रसंछादितमिव गगनमा-
पाद्यन्तो, मन्दरगिरिपरिक्षेपक्षुभितक्षीरवारिधिदूरसमुच्छलितदुग्ध-
कल्लोललीलां दर्शयन्तः, शेषाहिफणचक्रवालधवलाः, प्रमुदितहराट्टहा-
सलवा इव मूर्तिमन्तः पतन्तः, अमन्दमन्द्रकोलाहलभरितभुवनान्त-
रालाः, सपदि धरातलमुत्फुल्लपाण्डुपङ्कजप्रकरप्रकारेण मण्डयन्तो
निपेतुः कुतोऽपि पुण्डरीकपाण्डुपक्षपन्नराजयो राजहंसाः ॥ क ॥
तथाविधे च व्यतिकरे विस्मयविस्मृतनिमेषतया निर्वातनिश्चलनी-
लोत्पलपलाशशोभायमानलोचनः कौतुकाकूततरलितमनाः सपरिजानो
नरपतिरवलोकयन्निश्चल एवावतस्थे ॥ ख ॥
ते च धार्तराष्ट्रा अपि कृतपाण्डुपक्षपाताः, द्विजातयोऽपि सुराजिताः,
केचिदुच्चचञ्चुपुटविघटितनिकटबालस्थलकमलकुद्मलाः सरसबिस-
किसलयानि कवलयन्तः, केऽप्युन्नतसरलगलनालयो नलिनवनविमु-
खाः खमालोकयन्तः, केचिदुत्क्षिप्तपक्षविक्षेपपवनकम्पितकन्दलाः स-
लीलमुत्पतन्तः, केचिन्मदमधुरनिजनिनादनिर्जितशिञ्जाननूपुराः, पुरः
पुरोस्य धावन्तो विचरितुमारभन्त ॥ ग ॥
राजापि परिधावितविहङ्गमग्रहणाग्रहसमग्रव्यग्रपरिग्रहः परिहासो-
न्मीलदमलदन्तकान्तिस्तबकिताधरपल्लवो विहँसन्निव तेषामन्यतमम-
नुच्चदुलचरणचारीचर्यया चारु संचरन्तमीषदुत्क्षिप्तपक्षैविलासवि-
हसितविलासिनीलास्यलीलमुन्नमिताग्रग्रीवं जग्राह हेलया हंसम् ॥ घ ॥
तथेति ॥ शोभायमानलोचनेत्यत्र शोभाशब्दात्तद्वति वर्तमानादुपमानात्कर्तृवा-
चकादाचारेऽर्थे क्यङ् । एवं विश्रमायमाणेत्यादयोऽपि व्याख्याताः ॥ ख ॥
ते चेति ॥ कृष्णैश्चरणाननैर्हंसा धार्तराष्ट्राः । कृतः पाण्डुपक्षाणां शुभ्रपक्षतीनां
पातो न्यासो यैः । तथा द्विजातयः पक्षिणः सुष्ठु राजिताश्च । विरोधे धार्तराष्ट्राः
कुरवः पाण्डुनृपः पक्षपातस्तद्वल्लभम् । द्विजातयो विप्राः । सुरया जिताः । गल-
नालिः कण्ठकाण्डम् ॥ ग ॥
राजेति ॥ सलयश्चरणन्यासश्चारी ॥ घ ॥
१ 'पाण्डुडिण्डीर'. २ 'अमन्दमन्दर'. ३ 'अमन्दमदकलकोलाहल'. ४ 'एवाव-
तिष्ठते स्म'. ५ 'बालशैवालस्थल'. ६ 'सरल'- ७ 'उन्नमित'. ८ 'अवलोकयन्तः'.
९ 'व्यग्रसमस्तपरिजनः'; 'समस्तव्यग्रपरिकरः'. १० 'विहसन्निव'. ११ 'पक्षविक्षेपवि-
लास'