सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 59, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 59

द्वितीय उच्छ्वासः । ४३
तैकनकुलानाह्लादितानेकनकुलाः, सहदेवेनैकेन स्पर्धमानाननेकैः सह-
देवैः संगताः । न बहु मन्यन्ते कुरुचीरान्वीरुधः ॥ क ॥
किं चान्यदवलोकयतु देवः ।
पटलमलिकुलानामुन्नमन्मेघनीलं
भ्रमदुपरि तरूणां पुष्पितानां विलोक्य ।
मृदुमदकलकेकानिर्भरो नृत्यसक्त-
स्तरलयति कलापं मन्दमन्दं मयूरः ॥ ४ ॥
अपिच ।
भ्राम्यद्विरेफाणि विकासभाञ्जि
संयोज्य पुष्पाणि शिलीमुखेषु ।
इह स्थितः सर्वजगज्जयाय
धनुःश्रमं पुष्पशरः करोति ॥ ५ ॥
इतश्च
हरिति हरिणयूथं यूथिकाजालमूले
कुसुममधुबिन्दुस्यन्दसंदोहभाजि ।
मधुरमधुकरालीगीतदत्तावधानं
लिखितमिव न दूर्वापल्लवानुल्लुनाति ॥ ६ ॥
इतोऽपि
सोऽयं क्रीडाचलो भव्य लोभव्यसनवर्जित ।
यस्मिन्नासन्नसारङ्गा सारं गायति किंनरी ॥ ७ ॥
बहवो भीमा अम्लवेतसा अर्जुनाश्च याभिः । यद्विश्वप्रकाशः—'भीमोऽम्लवेतसे
शंभौ घोरे वापि वृकोदरे' । नकुला जीवाः । सहदेवास्तरवः । कुरुवीरपक्षे
भीमार्जुननकुलसहदेवाः पाण्डवाः ॥ क ॥
भ्राम्येति ॥ शिलीमुखाः शराः । इहेत्युद्यानस्योद्दीपनविभावातिशयोक्त्या
कामस्य स्थितिरुह्यते । एतावता सुरभिकुसुमसंपदुक्ता ॥ ५ ॥
हरितीति ॥ हरिति शाद्वले यूथिकासमूहस्याधःप्रदेशे मधुबिन्दुसंदोहसंबन्धा-
त्स্পृहणीयेऽपि गीतरसिकतया मृगाणां दूर्वाङ्कुराग्रहणमुक्तम् ॥ ६ ॥
सोऽयमिति ॥ हे भव्य, हे लोभेन व्यसनैश्च विवर्जित, सोऽयं क्रीडागिरिः ।
यस्मिन्निरावासन्नमृगा किंनरी सारमुत्कृष्टं गायति । गीतप्रकर्षाकृष्टत्वात्सारङ्गाणा-
मासन्नता ॥ ७ ॥
१. 'वर्जितः'